SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा अथ सर्वेऽपि केवलिनः समुद्धातं गच्छन्ति न वा ? इति चेद् , उच्यते---यस्य केवलिन आयुषा सह वेदनीयनामगोत्राणि समस्थितिकानि भवन्ति स हि न केवलिसमुद्धातं करोति, शेषस्तु करोति । उक्तं च श्रीमदार्यश्यामपादैःसवे वि णं भंते ! केवली समुग्घायं गच्छंति ? गोयमा ! नो इट्टे समटे । जस्साउएण तुल्लाई, बंधणेहिं ठिईहि य । भवोवग्गाहिकम्माइं, समुग्धायं से न गच्छइ ॥ अगंतूणं समुग्घायं, अणंता केवली जिणा । जरमरणविप्पमुक्का, सिद्धिं वरगइं गया ॥ (पत्र० ६०१-१) समुद्धातं च कुर्वन् केवली प्रथमसमये बाहुल्यतः खशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां सङ्घातदण्डं दण्डस्थानीयं ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीयसमये तमेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणाद् मन्थसदृशं मन्थानं करोति लोकान्तप्रापिणमेव । एवं च लोकस्य प्रायो बहु पूरितं मन्थान्तराण्यपूरितानि भवन्ति, अनुश्रेणि गमनात् , चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो भवतीति । तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयति, षष्ठे समये मन्थानमुपसंहरति घनतरसङ्कोचनात् , सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सङ्कोचनात् , अष्टमे समये दण्डं समुपहृत्य शरीरस्थ एव भवति । न चैतत् खमनीषिकाविजृम्भितम् । यदाहुवृद्धाः उड्डाहायय लोगंतगामिणं सो सदेहविक्खंभं । पढमसमयम्मि दंडं, करेइ बिइयम्मि उ कवाडं ॥ तइयसमयम्मि मंथं, चउत्थए लोगपूरणं कुणइ । पडिलोमं संहरणं, काउं तो होइ देहत्थो ॥ (विशेषा० गा० ३०५२-३०५३) वाचकवरोऽप्याह दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये। मन्थानमथ तृतीये, लोकव्यापी चतुर्थे तु ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ।। (प्रश० का० २७४-२७५) तस्येदानी समुद्धातस्य योगव्यापारश्चिन्त्यते-योगाश्च मनोवाक्कायाः, अत्रैषां कः कदा व्याप्रियते । तत्रेह मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् । १ सर्वेऽपि भदन्त ! केवलिनः समुद्धातं गच्छन्ति ? गौतम ! नायमर्थः समर्थः । यस्याऽऽयुषा तुल्यानि बन्धनैः स्थितिभिश्च । भवोपग्राहिकर्माणि समुद्धातं स न गच्छति ॥ अगवा समदातमनन्ताः जिनाः। जरामरणविप्रमुक्ताः सिद्धिं वरगतिं गताः॥ २णमटे क० ख० घ० रु०॥ ३ ऊर्ध्वाधआयतं लोकान्तगामिनं स वदेहविष्कम्भम् । प्रथमसमये दण्डं करोति द्वितीये तु कपाटम् ॥ तृतीयसमये मन्थानं चतुर्थके लोकपूरणं करोति । प्रतिलोमं संहरणं कृला ततो भवति देहस्थः ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy