________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५-२६] षडशीतिनामा चतुर्थः कर्मग्रन्थः।
१५५ गृहीता एव ततो द्वितीयादिसमयेष्विव तदानीमप्यौदारिकमिश्रकाययोग इति, तदेतद् अयुक्तम् , सम्यग्वस्तुतत्त्वापरिज्ञानात् , यतो यद्यपि तदानीमौदारिकादिषु पुद्गला गृह्यमाणा गृहीता एव तथापि न तेषां गृह्यमाणानां स्वग्रहणक्रियां प्रति करणरूपता येन तन्निबन्धनो योगः परिकल्प्येत, किन्तु कर्मरूपतैव, निष्पन्नरूपस्य सत उत्तरकालं करणभावदर्शनात् । नहि घटः खनिष्पादनफ्रियां प्रति कर्मरूपतां करणरूपतां च प्रतिपद्यमानो दृश्यते, द्वितीयादिसमयेषु पुनस्तेषामपि प्रथमसमयगृहीतानामन्यपुद्गलोपादानं प्रति करणभावो न विरुध्यते, निष्पन्नत्वात् ; अतस्तदानीमौदारिकमिश्रकाययोग उपपद्यत एव । अत एवोक्तम्- "तेण परं मीसेणं" इति । तस्माद् अस्त्याहारकस्याप्युत्पत्तिप्रथमसमये कार्मणकाययोग इति । अतः "जोगा अकम्मगाहारगेसु" इति पदं चिन्त्यमस्तीति ॥ २५ ॥
तिरि इथि अजय सासण, अनाण उवसम अभव्व मिच्छेसु ।
तेराहारदुगूणा, ते उरलदुगूण सुरनरए ॥२६॥ "तिरि" ति तिर्यग्गतौ स्त्रियां' स्त्रीवेदे 'अयते' विरतिहीने साखादनसम्यक्त्वे “अनाण" ति अज्ञानत्रिके-मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणे 'उपशमे' औपशमिकसम्यक्त्वे 'अभव्येषु' सिद्धिगमनानुचितेषु 'मिथ्यात्वे' मिथ्यादृष्टिषु त्रयोदश योगा भवन्ति । के ? इत्याह-आहारकद्विकेनआहारकाहारकमिश्रलक्षणेन ऊनाः-हीना आहारकद्विकोनाः । अयमत्राशयः--मनोयोगचतुष्टयवाग्योगचतुष्टयौदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्रकार्मणलक्षणा योगा भवन्ति । तत्र कार्मणमपान्तरालगतौ उत्पत्तिप्रथमसमय एव, औदारिकमिश्रमपर्याप्तावस्थायाम्, पर्याप्तावस्थायामौदारिकं मनोवाग्योगचतुष्टयं च । तथा तिरश्चामपि केषाञ्चिद् वैक्रियलब्धियोगतो वैक्रियमिश्र वैक्रियं च घटत एव । यत्तु आहारकद्विकम्-आहारकाहारकमिश्रलक्षणं तद् न सम्भवत्येव, तिरश्वां तत्र सर्वविरत्यसम्भवात् ; सर्वविरतस्य हि चतुर्दशपूर्ववेदिन आहारकद्विकं सम्भवति, "आहार चउदसपुग्विणो" इत्यादिवचनप्रामाण्यादिति । तथा इह स्त्रीवेदो द्रव्यरूपो द्रष्टव्यः, न तु तथारूपाध्यवसायलक्षणो भावरूपः, तथाविवक्षणात् । एवमुपयोगमार्गणायामपि द्रष्टव्यम् । प्राक् च गुणस्थानकमार्गणायां सर्वोऽपि वेदो भावस्वरूपो गृहीतः, तथाविवक्षणादेव, अन्यथा तेषु प्रोक्तगुणस्थानकसङ्ख्यायोगात् ; सयोगिकेवल्यादावपि द्रव्यवेदस्य भावात् , द्रव्यवेदश्च बाह्यमाकारमात्रम् । ततः स्त्रीषु त्रयोदश योगा आहारकद्विकोना भवन्ति, न पुनराहारकद्विकमपि, यत आहारकद्विकं चतुर्दशपूर्वविद एव भवति, “आहारकदुगं जायइ चउदसपुग्विणो" इति वचनात् । न च स्त्रीणां चतुर्दशपूर्वाधिगमोऽस्ति, स्त्रीणामागमे दृष्टिवादाध्ययनप्रतिषेधात् । यदाह भाष्यसुधासुधांशुः
तुच्छा गारवबहुला, चलिंदिया दुब्बला धिईए य ।
इय अइसेसज्झयणा, भूयावादो य नो थीणं ॥ (विशेषा० गा० ५५२) इति । 'भूतवादः' दृष्टिवादः । तथा अयते साखादने अज्ञानत्रिके च त्रयोदश योगा आहारकद्वि
१ पूर्ववत् ॥ २ आहारकं चतुर्दशपूर्विणः ॥ ३ आहारकद्विकं जायते चतुर्दशपूर्विणः ॥ ४ तुच्छा गौरवबहुलाश्चलेन्द्रिया दुर्बला धृत्या च । इति अतिशायीन्यध्ययनानि भूतवादश्च न स्त्रीणाम् ॥
For Private and Personal Use Only