SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा लब्धिप्रत्ययं तिर्यमनुष्याणाम् । उक्तं च श्रीमदनुयोगद्वारलघुवृत्तौ विविहाँ विसिट्ठगा वा, किरिया तीए अजं भवं तमिह । नियमा विउवियं पुण, नारगदेवाण पयईए ॥ (पत्र. ८७) तदेव काययोगस्तन्मयो वा योगो वैक्रिययोगो वैकुर्विककाययोगो वा १ । वैक्रियं मिश्रं यत्र कार्मणेन औदारिकेण वा स वैक्रियमिश्रः, तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायां प्रथमसमयादनन्तरम् , बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यज्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वा औदारिकेण मिश्रम् , ततो वैक्रियमिश्रश्वासौ कायश्च वैक्रियमिश्रकायस्तेन योगो वैक्रियमिश्रकाययोगः २ । चतुर्दशपूर्वविदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशाद् आह्रियते निर्वर्त्यत इत्याहारकम् , अथवाऽऽह्रियन्ते गृह्यन्ते तीर्थकरादिसमीपे सूक्ष्मा जीवादयः पदार्था अनेनेत्याहारकम् । “कृढ़हुलं' (बहुलम् सि० ५-१-२) इति कर्मणि करणे वा णकः । यदवादि कैजम्मि समुप्पन्ने, सुयकेवलिणा विसिट्टलद्धीए । जं इत्थ आहरिजइ, भणंति आहारगं तं तु ॥ (अनु. हा. टी. पत्र ८७) पाणिदयरिद्धिसंदरिसणस्थमत्थोवगहणहेडं वा । संसयवुच्छेयत्थं, गमणं जिणपायमूलम्मि ॥ (अनु. चू. पत्र ६१, अनु. हा. टी. पत्र ८७) तदेव कायस्तेन योग आहारककाययोगः ३ । आहारकं मिश्रं यत्र औदारिकेणेति गम्यते स आहारकमिश्रः, सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं परित्यजत औदारिकमुपाददानस्य आहारकं प्रारभमाणस्य वा प्राप्यते, स एव कायस्तेन योग आहारकमिश्रकाययोगः ४ । तथा औदारिककाययोगः, इह प्रसिद्धसिद्धान्तसन्दोहविवरणप्रकरणप्रमाणग्रन्थग्रथनावाप्तसुधांशुधामधवलयशःप्रसरधवलितसकलवसुन्धरावलयप्रभुश्रीहरिभद्रसूरिदर्शिता व्युत्पत्तिर्लिख्यते__ तत्थ ताव उदारं उरालं उरलं ओरालं वा । तित्थगरगणधरसरीराइं पडुच्च उदारं वुच्चइ, न तओ उदारतरमन्नमत्थि त्ति काउं, उदारं नाम प्रधानम् । उरालं नाम विस्तरालं विशालमिति वा, जं भणियं होइ, कहं ? साइरेगजोयणसहस्समवट्टियप्पमाणमोरालियं, अन्नमिद्दहमित्तं नत्थि, वेउवियं हुज्ज लक्खमहियं, अवट्ठियं पंचधणुसँयाइं अहे सत्तमाए, इत्थं पुण अवट्ठियपमाणं १ विविधा विशिष्टा वा क्रिया तस्यां च यद् भवं तदिह । नियमाद् वैकुर्विकं पुनः नारकदेवानां प्रकृत्या । २ °या विकिरिय तीए जं तमिह । अनुयोगद्वारलघुवृत्तौ ॥ ३ कार्ये समुत्पन्ने श्रुतकेवलिना विशिष्टलब्ध्या । यदत्राह्रियते भणन्ति आहारकं तत् तु ॥ प्राणिदयार्द्धसन्दर्शनार्थमर्थावग्रहणहेतुर्वा । संशयव्युच्छेदार्थ गमनं जिनपादमूले ॥ ४ तत्र तावदुदारमुरालमुरलमोरालं वा । तीर्थकरगणधरशरीराणि प्रतीत्योदारमुच्यते, न तत उदारतरमन्यदस्तीति कृत्वा ॥ ५ ओरालं ओरालियं अनुयोगद्वारचूर्णौ ॥ ६ काउं उदारं । उदा अनुयोगद्वारचूर्णौ ॥ ७ यद् भणितं भवति, कथं सातिरेकयोजनसहस्रमवस्थितप्रमाणमौदारिकम् , अन्यदेतावन्मानं नास्ति, वैक्रियं भवेद् लक्षाधिकम् , अवस्थितं पञ्च धनुःशतानि अधः सप्तम्याम्, अत्र पुनः अवस्थितप्रमाणं सातिरेकं योजनसहस्रम् ॥ ८°सतं, इमं पु° अनुयोगद्वारचूर्णिलघुवृत्त्योः ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy