________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१-२३ ]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१४९
I
1
वि । जैइ नाणी तो अत्थेगइया तिनाणी अत्थेगइया चउनाणी । जे तिनाणी ते आभिणिबोहियनाणी सुअनाणी ओहिनाणी । जे चउनाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी । जे अन्नाणी ते नियमो मइअन्नाणी सुयअन्नाणी विभंगनाणी । ( श० ८ उ० २ पत्र ३५५ - १ ) इति ।
अत्र हि येऽज्ञानिनस्ते मिथ्यादृष्टय एवेति मिथ्यादृष्ट्यादीनामप्यवधिदर्शनं साक्षादत्र सूत्रे प्रतिपादितम् । स एव विभङ्गज्ञानी यदा सासादनभावे मिश्रभावे वा वर्तते तत्रापि तदानीमवधिदर्शनं प्राप्यत इति । यत् पुनः सयोग्ययोगिकेवलिगुणस्थानकद्विकं तत्र मतिज्ञानादि न सम्भवत्येव, तद्व्यवच्छेदेनैव केवलज्ञानस्य प्रादुर्भावात् " नैट्टम्मि उ छाउमत्थिए नाणे" ( आव० नि० गा० ५३९) इति वचनप्रामाण्यादिति ॥ २१ ॥
अड उवसमि च वेयगि, खइगे इक्कार मिच्छतिगि देसे । सुमेय सठाणं तेर जोग आहार सुक्काए ॥ २२ ॥
काकाक्षिगोलकन्यायाद् इह "अयतादीनि ” [इति] पदं सर्वत्र योज्यते । ततोऽयतादीन्युपशान्तमोहान्तान्यष्टौ गुणस्थानान्योपशमिकसम्यक्त्वे भवन्ति । अयतादीन्यप्रमत्तान्तानि चत्वारि 'वेदके' क्षायोपशमिकापरपर्याये गुणस्थानकानि भवन्ति । क्षायिकसम्यक्त्वे अयतादीन्ययोगिकेवपर्यवसानान्येकादश गुणस्थानकानि भवन्ति । तथा 'मिथ्यात्वत्रिके' मिथ्यादृष्टिसासादनमिश्रलक्षणे 'देशे' देशविरते 'सूक्ष्मे' सूक्ष्मसम्पराये 'चः' समुच्चये 'स्वस्थानं' निजस्थानम् । इदमुक्तं भवति – मिथ्यात्वमार्गणास्थाने मिथ्यादृष्टिगुणस्थानम्, सासादनमार्गणास्थाने सासादनं गुणस्थानम्, मिश्रे मार्गणास्थाने मिश्रं गुणस्थानम्, देशसंयममार्गणास्थाने देशविरतं गुणस्थानम्, सूक्ष्मसम्परायसंयममार्गणास्थाने सूक्ष्मसम्परायगुणस्थानम् । तथा ‘योगे' मनोवाक्कायलक्षणे अयोगकेवलिवर्जितानि शेषाणि त्रयोदश गुणस्थानानि भवन्ति, सर्वेष्वप्येतेषु यथायोगं योगत्रयस्यापि सम्भवात् । तथा आहारकेषु आद्यानि त्रयोदश गुणस्थानानि भवन्ति, सर्वेष्वप्येतेषु ओजोलोमप्रक्षेपाहाराणामन्यतमस्याहारस्य यथायोगं सम्भवात् । तथा "सुक्काए" त्ति शुक्ललेश्यायां प्रथमानि त्रयोदश गुणस्थानानि भवन्ति, न त्वयोगिकेवलिगुणस्थानम्, तस्य लेश्यातीतत्वादिति ॥ २२ ॥ अस्सन्निसु पढमदुगं, पढमतिलेसासु छच्च दुसु सत्त । पढमंतिम दुगअजया, अणहारे मग्गणासु गुणा ॥ २३ ॥
'असंज्ञिषु' संज्ञिव्यतिरिक्तेषु प्रथमं मिथ्यादृष्टिसासादनलक्षणं गुणस्थानकद्वयं भवति । तत्र ( ग्रन्थाग्रम् - १०००) मिथ्यात्वमविशेषेण सर्वत्र द्रष्टव्यम्, सासादनं तु लब्धि पर्याप्तकानां करणापर्याप्तावस्थायामिति । प्रथमासु तिसृषु लेश्यासु मिथ्यादृष्ट्यादीनि प्रमत्तान्तानि षड् गुणस्था
ज्ञानिनोऽज्ञानिनः ? गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि । यदि ज्ञानिनः ततोऽस्त्येककाः त्रिज्ञानिनोऽस्त्येककाश्चतुर्ज्ञानिनः । ये त्रिज्ञानिनस्ते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः । ये चतुर्ज्ञानिनस्ते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यायज्ञानिनः । ये अज्ञानिनस्ते नियमाद् मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनः ॥ १ जे नाणी ते अ° भगवत्याम् ॥ २ °मा तिअन्नाणी, तं जहा – मइ° भगवत्याम् ॥ ३ नष्टे तु छाद्मस्थिके ज्ञाने ॥ ४ तादीति प° क० ॥
For Private and Personal Use Only