________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२]
षडशीतिनामा चतुर्थः कर्मप्रन्थः । ___ ध्यानद्वारे-धर्मध्यानेन प्रवर्तमानेन परिहारविशुद्धिकं करूपं प्रतिपद्यते । पूर्वप्रतिपन्नः पुनरातरौद्रयोरपि भवति केवलं प्रायेण निरनुबन्धः । उक्तं च
झाणम्मि वि धम्मेणं, पडिवज्जइ सो पवड्डमाणेणं । इयरेसु वि झाणेसुं, पुव्वपवन्नो न पडिसिद्धो ॥ ऐवं च कुसलजोगे, उद्दामे तिव्वकम्मपरिणामा ।
रुद्दद्देसु वि भावो, इमस्स पायं निरणुबंधो ॥ (पञ्चव० गा० १५०५-६) गणद्वारे-जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतसङ्ख्याः । पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः । पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः, उत्कर्षतः सहस्रम् । पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः, उत्कर्षतः सहस्रशः । आह च----
गणओ तिन्नेव गणा, जहन्न पडिवत्ति सयस उक्कोसा । उक्कोसजहन्नेणं, सयसु च्चिय पुव्वपडिवन्ना ॥ सत्तावीस जहन्ना, सहस्समुक्कोसओ य पडिवत्ती ।
सयसो सहस्ससो वा, पडिवन्न जहन्न उक्कोसा ॥ (पञ्चव० गा० १५३४-३५) अन्यच्च यदा पूर्वप्रतिपन्नः कल्पमध्याद् एको निर्गच्छति अन्यः प्रविशति तदोनप्रक्षेपे प्रतिपत्तौ कदाचिद् एकोऽपि भवति पृथक्त्वं वा । उक्तं च
पंडिवज्जमाण भइया, इक्को वि य हुज ऊणपक्खेवे ।
पुव्वपडिवन्नया वि य, भइया एक्को पुहत्तं वा ॥ (पञ्चव० गा० १५३६) अभिग्रहद्वारे-अभिग्रहाश्चतुर्विधाः । तद्यथा-द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाश्च विचित्रा भवन्ति । तत्र परिहारविशुद्धिकस्य इमेऽभिग्रहा न भवन्ति, यस्माद् एतस्य कल्प एव यथोदितरूपोऽभिग्रहो वर्तते । उक्तं च
दवाईय अभिग्गह, विचित्तरूवा न हुंति पुण केई । एयर्स जावकप्पो, कप्पु च्चियऽभिग्गहो जेण ॥ ऐयम्मि गोयराई, नियया नियमेण निरखवाया य ।
तप्पालणं चिय परं, एयस्स विसुद्धिठाणं तु ॥ (पञ्चव० गा० १५०९-१०) प्रव्रज्याद्वारे-नासावन्यं प्रव्राजयति कल्पस्थितिरेषेति कृत्वा । उक्तं च१ ध्यानेऽपि धर्मेण (ध्यानेन) प्रतिपद्यतेऽसौ प्रवर्धमानेन । इतरेष्वपि ध्यानेषु पूर्वप्रपनो न प्रतिषिद्धः॥ एवं च कुशलयोगे उद्दामे तीवकर्मपरिणामात् । रौद्रातयोरपि भावोऽस्य प्रायो निरनुबन्धः ॥ २ एवं अकु. क० ख० ग० घ० उ०॥ ३ गणतनय एव गणा जघन्या प्रतिपत्तिः शतश उत्कृष्टा । उत्कृष्टजघन्याभ्यां शतश एव पूर्वप्रतिपन्नाः ॥ सप्तविंशतिर्जघन्या सहस्राण्युत्कृष्टतश्च प्रतिपत्तिः । शतशः सहस्रशो वा प्रतिपना जघन्या उत्कृष्टा ॥ ४ प्रतिपद्यमाना भक्ता एकोऽपि च भवेद् ऊनप्रक्षेपे । पूर्वप्रतिपनका अपि च भक्का एकः पृथक्वं वा ॥ ५ द्रव्यादिका अभिग्रहा विचित्ररूपा न भवन्ति पुनः केऽपि । एतस्य यावत्कल्पं कल्प एवाभिग्रहो येन ॥ ६ °व्वाईआऽभि इति पश्चवस्तुके ॥ ७°ति इत्तिरिआ । इति पञ्चवस्तुके। ८ °स्स आवकहिओ कप्पो चि° इति पञ्चवस्तुके ॥ ९.एतस्मिन् गोचरादयो नियता नियमेन निरपवादाश्च । तत्पालनमेव परमेतस्य विशुद्धिस्थानं तु ॥
For Private and Personal Use Only