________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८-२१] बन्धखामित्वाख्यस्तृतीयः कर्मग्रन्थः । १०९ तत्रौधे एकोनाशीतिः, अविरते सप्तसप्ततिः, देशे सप्तषष्टिः इत्यादि यावदयोगिनि शून्यम् । क्षायिकसम्यक्त्वखरूपं त्विदम्
खीणे दंसणमोहे, तिविहम्मि वि भवनियाणभूयम्मि ।
निप्पञ्चवायमउलं, सम्मत्तं खाइयं होइ ॥ (श्राव० प्र० गा० ४८) तथा 'मिथ्यात्वत्रिके' मिथ्यादृष्टिसाखादनमिश्रलक्षणे 'देशे' देशविरते 'सूक्ष्मे' सूक्ष्मसम्पराये 'स्वस्थानं' निजस्थानम् । अयमर्थः---मिथ्यात्वमार्गणास्थाने मिथ्यादृष्टिगुणस्थानम् , सासादनमार्गणास्थाने सासादनगुणस्थानम् , मिश्रमार्गणास्थाने मिश्रगुणस्थानम् , देशसंयममार्गणास्थाने देशविरतगुणस्थानम् , सूक्ष्मसम्परायसंयमे सूक्ष्मसम्परायगुणस्थानम् । अत्र च खवगुणस्थानीयो बन्धः, यथा-मिथ्यात्वे ओघतो विशेषतश्च सप्तदशोत्तरशतम् , एवं सासादने एकोत्तरशतम् , मिश्रे चतुःसप्ततिः, देशे सप्तषष्टिः, सूक्ष्मे सप्तदशः । आहारकद्वारे-त्रयोदश गुणस्थानानि मिथ्यादृष्ट्यादीनि सयोगिकेवल्यन्तानि आहारके जीवे लभ्यन्ते, अयोगी त्वनाहारकः । तत्रौषतः विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , इत्यादि यावत् सयोगिनि सातरूपैका प्रकृतिबन्धे भवति । एवं वेदादिषु मार्गणास्थानेषु गुणस्थानकान्युपदर्य सम्प्रति तेषु बन्धातिदेशमाह-"नियनियगुणोहो" ति निजनिजगुणौघः, एतेषु वेदादिषु यानि खखगुणस्थानानि तेष्वोधः कर्मस्तवोक्तो बन्धे द्रष्टव्य इत्यर्थः । स च यथास्थानं भावित एव ॥ १९ ॥ यच्च प्रागुक्तम् “अष्टौपशमिकसम्यक्त्वे गुणस्थानानि" इति तत्र कश्चिद्विशेषमाह
परमुवसमि वहता, आउ न बंधंति तेण अजयगुणे ।
देवमणुआउहीणो, देसाइसु पुण सुराउ विणा ॥ २०॥ व्याख्या सर्वत्र वेदादिषु निजनिजगुणोघो वाच्य इत्युक्तं परमौपशमिकेऽयं विशेषःऔपशमिके वर्तमाना जीवा आयुर्न बध्नन्ति तेनाऽयतगुणस्थानके देवमनुजायुा हीन ओघो वाच्यः, नरकतिर्यगायुषोः प्रागेव मिथ्यात्वसासादनयोरपनीतत्वान्न तद्धीनता । तथा 'देशादिषु' देशविरतप्रमत्ताऽप्रमत्तेषु पुनरोधः सुरायुर्विना ज्ञेयः । औपशमिकसम्यक्त्वं तूपशमश्रेण्यां प्रथमसम्यक्त्वलामे वा भवति जीवस्य । उक्तं च
उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्मं ॥
(विशेषा० गा० ५२९, २७३५) ननु क्षायोपशमिकौपशमिकसम्यक्त्वयोः कः प्रतिविशेषः ?, उच्यते-क्षायोपशमिके मिथ्यात्वदलिकवेदनं विपाकतो नास्ति प्रदेशतः पुनर्विद्यते, औपशमिके तु प्रदेशतोऽपि नास्तीति विशेषः ॥ २० ॥ उक्तं वेदादिषु बन्धखामित्वम् । अथ लेश्याद्वारमुच्यते--
ओहे अट्ठारसयं, आहारदुगूण आइलेसतिगे।
तं तित्थोणं मिच्छे, साणाइसु सव्वहिं ओहो ॥ २१॥ १ क्षीणे दर्शनमोहे त्रिविधेऽपि भवनिदानभूते । निष्प्रत्यपायमतुलं सम्यक्वं क्षायिक भवति ॥ २ उपशमकश्रेणिगतस भवति औपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुञोऽक्षपितमिथ्यालो लभते सम्यक्त्रम् ॥
For Private and Personal Use Only