SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । ॥ अथ प्रशस्तिः ॥ विष्णोरिव यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् । कर्ममलपटलमुक्तः , स श्रीवीरो जिनो जयतु ॥ १॥ कुन्दोज्वलकीर्तिभरैः, सुरभीकृतसकलविष्टपाभोगः । शतमखशतविनतपदः, श्रीगौतमगणधरः पातु ॥ २ ॥ तदनु सुधर्मस्वामी जम्बूप्रभवादयो मुनिवरिष्ठाः ।। श्रुतजलनिधिपारीणाः, भूयांसः श्रेयसे सन्तु ॥ ३ ॥ क्रमात् प्राप्ततपाचार्येत्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे, श्रीजगच्चन्द्रसूरयः ॥ ४ ॥ जगज्जनितबोधानां, तेषां शुद्धचरित्रिणाम् । विनेयाः समजायन्त, श्रीमद्देवेन्द्रसूरयः ॥ ५॥ खान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा। कर्मस्तवस्य टीकेयं, सुखबोधा विनिर्ममे ॥ ६ ॥ विबुधवरधर्मकीर्तिश्रीविद्यानन्दसूरिमुख्यबुधैः । खपरसमयैककुशलैस्तदैव संशोधिता चेयम् ॥ ७ ॥ यद्गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपि शास्त्रे । विद्वद्भिस्तत्त्वज्ञैः, प्रसादमाधाय तच्छोध्यम् ॥ ८॥ कर्मस्तवसूत्रमिदं, विवृण्वता यन्मयाऽर्जितं सुकृतम् । सर्वेऽपि कर्मबन्धास्तेन त्रुट्यन्तु जगतोऽपि ॥९॥ इति स्वोपज्ञटीकोपेतः कर्मस्तवः। ग्रं. ८३० क. १३ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy