________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा स्यान्तः-व्यवच्छेदो यासां ताश्चरमसमयान्ताः । ता एवाह-सुभगं आदेयं “जस" ति यशःकीर्तिनाम अन्यतरवेदनीयं सयोगिकेवलिचरमसमयव्यवच्छिन्नोद्वरितं वेदनीयमित्यर्थः ।। २२।। - "तसतिगं" ति त्रसत्रिक-त्रसबादरपर्याप्ताख्यं “पणिंदि" त्ति पञ्चेन्द्रियजातिः “मणुयाउगई" ति मनुजशब्दस्य प्रत्येकं योगात् मनुजायुर्मनुजगतिः "जिण" त्ति जिननाम "उच्चं" ति उच्चैर्गोत्रम् इतिशब्दो द्वादशप्रकृतिपरिसमाप्तिद्योतक इति ॥ ॥ इति श्रीदेवेन्द्रसूरिविरचितायां खोपज्ञकर्मस्तवटीकायामुदयाधिकारः समाप्तः ॥
उदयाधिकारमेनं, विवृण्वता यन्मयाऽर्जितं सुकृतम् । दुष्कर्मोदयरहितो, लोकः सर्वोऽपि तेनास्तु ॥
अथ तस्य भगवतः कस्मिन् गुणस्थाने कियत्यः प्रकृतय उदीरणामाश्रित्य व्यवच्छिन्नाः ? इत्येतदतिदेशद्वारेणाह
उदउ व्वुदीरणा परमपमत्ताईसगगुणेसु ॥ २३ ॥ उदयवद् उदीरणा पूर्वोक्तशब्दार्था गुणस्थानेषु वक्तव्या । किमुक्तं भवति?-यावतीनां प्रकृतीनामुदयस्वामी तावतीनामुदीरणाखाम्यपीति । अतिप्रसङ्गनिवृत्त्यर्थमाह-"परमपमचाईसगगुणेसु"ति । 'परं' केवलमियान् विशेषः-अप्रमत्त आदौ येषां तेऽप्रमत्तादयः गुणाःगुणस्थानानि, सप्त च ते गुणाश्च सप्तगुणाः, अप्रमत्तादयश्च ते सप्तगुणाश्च अप्रमत्तादिसप्तगुणास्तेष्वप्रमत्तादिसप्तगुणेषु ॥ २३ ॥ किम् ? इत्याह
एसा पयडितिगूणा, वेयणियाऽऽहारजुगल थीणतिगं । मणुयाउ पमत्ता, अजोगि अणुदीरगो भगवं ॥ २४ ॥
॥ उदीरणा सम्मत्ता ॥ 'एषा' उदीरणा प्रकृतित्रिकेण ऊना-हीना वक्तव्या । इयमत्र भावना-मिथ्यादृष्टेः सप्तदशोत्तरशतस्योदयः, उदीरणाऽप्येवम् । साखादनस्य एकादशशतस्योदयस्तथैवोदीरणाऽपि । मिश्रस्योदयः शतस्य, उदीरणाऽपि । अविरतसम्यग्दृष्टेरुदयश्चतुरुत्तरशतस्य, तथैवोदीरणा । देशविरतस्य सप्ताशीतेरुदयः, उदीरणाऽपि । प्रमत्तस्यैकाशीतेरुदयः, उदीरणाऽपि च । अप्रमत्ते उदयः षट्सप्ततेः, उदीरणा त्रिसप्ततेः १ । अपूर्वकरणे उदयो द्विसप्ततेः, उदीरणा एको. नसप्ततेः २ । अनिवृत्तिबादरे उदयः षट्पष्टेः उदीरणा त्रिषष्टेः ३ । सूक्ष्मसम्पराये उदयः षष्टेः, उदीरणा सप्तपञ्चाशतः ४ । उपशान्तमोहे उदय एकोनषष्टेः, उदीरणा षट्पञ्चाशतः ५। क्षीणमोहे उदयः सप्तपञ्चाशतः, उदीरणा चतुष्पञ्चाशतः ६ । सयोगिकेवलिन्युदयो द्विचत्वारिंशतः, उदीरणा एकोनचत्वारिंशत ७ इति । ननु केन प्रकृतित्रिकेणाऽप्रमत्तादिषूदीरणा ऊना: इत्याशङ्कयाह-"वेयणियाहारजुगल" ति, युगलशब्दस्य प्रत्येकं योजनाद् वेदनीययुगलं-सातवेदनीयाऽसातवेदनीयरूपम् , आहारकयुगलम्-आहारकशरीराहारकाङ्गोपाङ्गलक्षगम् , “थीणतिगं" ति 'स्त्यानचित्रिक' निद्रानिद्रामचलाप्रचलास्त्यानर्द्धिरूपं, मनुष्यायुः इत्येतासामष्टानां
For Private and Personal Use Only