________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२]
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।
सं.मा. सं.मा. सं.को.
| पु. वे. | हास्य रति | अरति शोक | भय जुगुप्सा
स्त्री. वे.
न. वे.
अ. क्रो.
प्र. लो. |
प्र. को. | अ. मा. | प्र. मा. अ. मा. | प्र. मा. | अ. लो.
स, मो. मि.मो.
मि.मो.
अ.को. अ.मा.अ.मा. अ.लो. तथा योगो वीर्यं शक्तिः उत्साहः पराक्रम इति पर्यायाः, स च मनोवाक्कायलक्षणकरणभेदात् तिस्रः संज्ञा लभते, मनोयोगो वाग्योगः काययोगश्चेति । तथा चोक्तं कर्मप्रकृतौ
परिणामालंबणगणकारणं तेण लद्धनामतिगं ।
कजब्भासान्नुन्नप्पवेसविसमीकयपएसं ॥ (गा० ४) । तत्र भगवतो मनोयोगो मनःपर्यायज्ञानिभिरनुत्तरसुरादिभिर्वा मनसा पृष्टस्य सतो मनसैव देशनात् , ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनाऽवधिज्ञानेन वा पश्यन्ति, दृष्ट्या च ते विवक्षितवस्त्वाकारान्यथानुपपत्त्या लोकखरूपादिबाह्यमर्थमवगच्छन्तीति । वाग्योगो धर्मदेशनादौ । काययोगो निमेषोन्मेषचङ्क्रमणादौ । ततोऽनेन योगत्रयेण सह वर्तत इति सयोगी "सर्वादेरिन्" (सि०७-२-५९) इतीन् प्रत्ययः । केवलं-केवलज्ञानं केवलदर्शनं च विद्यते यस्य स केवली, सयोगी चासौ केवली च सयोगिकेवली, तस्य गुणस्थानं सयोगिकेवलिगुणस्थानम् १३ ।
तथा न विद्यन्ते योगाः पूर्वोक्ता यस्यासावयोगी । कथमयोगित्वमसावुपगच्छति ? इति चेद् उच्यते--स भगवान् सयोगिकेवली जघन्यतोऽन्तर्मुहूर्तम् उत्कृष्टतो देशोनां पूर्वकोटीं विहृत्य कश्चित् कर्मणां समीकरणार्थ समुद्घातं करोति, यस्य वेदनीयादिकमायुषः सकाशादधिकतरं भवति, अन्यस्तु न करोति । यदाहुः श्रीआर्यश्यामपादा:
सँवे वि णं भंते ! केवली समुग्घायं गच्छंति ? गोयमा ! नो इणढे समढे । १°णत्रयमें ख०॥ २ परिणामालम्बनग्रहणकारणं तेन लब्धनामत्रिकम् । कार्याभ्यासान्योऽन्यप्रवेशविषमीकृतप्रदेशम् ॥ ३ सर्वेऽपि खलु भन्दत ! केवलिनः समुद्धातं गच्छन्ति ? गौतम ! नायमर्थः समर्थः । यस्य आयुषा तुल्यानि बन्धनैः स्थितिभिश्च । भवोपग्राहिकर्माणि न समुद्धातं स गच्छति ॥ अगवा समुद्धातम् अनन्ताः केवलिनो जिनाः । जरामरणविप्रमुकाः सिद्धिं वरगतिं गताः ॥
For Private and Personal Use Only