________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । सावद्ययोगान्ते विरतं विरतिर्यस्यासौ देशविरतः । सर्वसावद्यविरतिः पुनरस्य नास्ति, प्रत्याख्यानावरणकषायोदयात् , सर्वविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणाः । उक्तं च
सम्मइंसणसहिओ, गिण्हतो विरइमप्पसत्तीए ।
एगवयाइचरिमो, अणुमइमित्त त्ति देसजई ॥ देशविरतस्य गुणस्थानं देशविरतगुणस्थानम् ५।।
तथा संयच्छति स्म-सम्यग् उपरमति स्म संयतः, “गत्यर्थाऽकर्म०" (५-१-११) इति क्तः, प्रमाद्यति स्म-संयमयोगेषु सीदति स्म, प्राग्वत् कर्तरि क्तः प्रमत्तः, यद्वा प्रमदनं प्रमत्तंप्रमादः, स च मदिराविषयकषायनिद्राविकथानामन्यतमः सर्वे वा । प्रमत्तमस्यास्तीति प्रमत्तःप्रमादवान् "अभ्रादिभ्यः” (सि०८-२-४६) इति अप्रत्ययः, प्रमत्तश्चासौ संयतश्च प्रमत्तसंयतः, तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानम् , विशुद्ध्यविशुद्धिप्रकर्षाऽपकर्षकृतः खरूपभेदः । तथाहि-देश विरतिगुणापेक्षया एतद्गुणानां विशुद्धिप्रकर्षोऽविशुद्ध्यपकर्षश्च, अप्रमत्तसंयतापेक्षया तु विपर्ययः । एवमन्येष्वपि गुणस्थानेषु पूर्वोत्तरापेक्षया विशुद्ध्यविशुद्धिप्रकर्षाऽपकर्षयोजना द्रष्टव्या ६
न प्रमत्तोऽप्रमत्तः । यद्वा नास्ति प्रमत्तमस्यासावप्रमत्तः, स चासौ संयतश्च, तस्य गुणस्थानम् अप्रमत्तसंयतगुणस्थानम् ७ ।
अपूर्वम्-अभिनवं प्रथममित्यर्थः करणं-स्थितिघातरसघातगुणश्रेणिगुणसङ्कमस्थितिबन्धानां पञ्चानामर्थानां निर्वर्तनं यस्यासावपूर्वकरणः । तथाहि-बृहत्प्रमाणाया ज्ञानावरणीयादिकर्मस्थितेरपवर्तनाकरणेन खण्डनम्-अल्पीकरणं स्थितिघात उच्यते । रसस्यापि प्रचुरीभूतस्य सतोऽपवर्तनाकरणेन खण्डनम्-अल्पीकरणं रसघात उच्यते । एतौ द्वावपि पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव कृतवान् , अत्र पुनर्विशुद्धेः प्रकृष्टत्वाद् बृहत्प्रमाणतया अपूर्वाविमौ करोति । तथा उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनाऽवतारितस्य दलिकस्यान्तर्मुहूर्तप्रमाणमुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या विरचनं गुणश्रेणिः । स्थापना पर । एतां च पूर्वगुणस्थानेष्वविशुद्धत्वात् कालतो द्राधीयसी दलिकरचनामाश्रित्याऽप्रथीयसीमल्पदलिकस्यापवर्तनाद् विरचितवान् इह तु तामेव विशुद्धत्वादपूर्वी कालतो इखतरां दलिकरचनामाश्रित्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद् विरचयतीति । तथा बध्यमानशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्य प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या विशुद्धिवशाद् नयनं गुणसङ्क्रमः, तमप्यसाविहापूर्व करोति । तथा स्थिति कर्मणामशुद्धत्वात् प्राग् द्राधीयसीं बद्धवान् , इह तु तामपूर्वो विशुद्धत्वादेव हूसीयसीं बध्नातीति [ स्थितिबन्धः] । ___ अयं चापूर्वकरणो द्विधा-क्षपक उपशमकश्च, क्षपणोपशमनार्हत्वात् चैवमुच्यते, राज्याहकुमारराजवत्, न पुनरसौ क्षपयत्युपशमयति वा, तस्य गुणस्थानम् अपूर्वकरणगुणस्थानम् ।
एतच्च गुणस्थानं प्रपन्नानां कालत्रयवर्तिनो नानाजीवानपेक्ष्य सामान्यतोऽसङ्ख्येयलोकाकाश
१ सम्यग्दर्शनसहितः गृह्णन् विरतिमात्मशक्त्या । एकत्रतादिचरिमः अनुमतिमानं इति देशयतिः ॥ २ °यसी दलिकस्याल्पस्यापख०॥
For Private and Personal Use Only