________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री पूर्वाचार्यविरचितः इति शेषः । किविशिष्टेन हृदयेन 'महायसमत्तिब्भरनिभरेण' महायशाः प्रस्तावात् श्रीपार्श्वस्तत्र यः भक्तिभरः तेन निर्भरण पूर्णेन हे देव | व्यन्तरजातीय ! २। पद्मावतीपक्षे तु अर्थयोजना एवं कर्तव्या-हे देवते! पद्मावति ! इति पूर्वोक्तप्रकारेण त्वं 'उ' इति निपातः सम्बोधने संस्तुता सती मह इति मम स्तोतुः । असुबोधिं भवे २ प्रास्य प्रकर्षेण क्षिप निराकुरु देवदे !, अत्र शौरसेनीभाषां विनापि तकारस्य दत्वं, सुशोभना बोधिः सुबोधिः न सुबोधिः असुबोधिः तां कुतीर्थाऽभिप्रेतां सातिचारां वा तां "एदो तो तः पदान्ते" इति 'अस्य लुकि कृते रूपं, हे 'अयसभत्तिब्भरनिब्भरे' अयशोऽपकीर्तिः, अथवा आयं धनादिलाभं स्थति समापयन्तीति आयसाः शत्रवः, तस्य अयशस्य तेषां आयसानां वा भक्तिमञ्जनं, तत्र विषये यो भरोऽत्याग्रहः तेन निर्भरा पूर्णा तस्या आमन्त्रणं हे अयशोभक्तिभरनिर्भरे !, अथवा आयसभक्तिभरनिभरे ! ।हे ननहितदे ! द्वौ नौ प्रकृतमर्थं गमयतः, इति न्यायात् हितदे एव, हितं अनुकूलं वस्तु भक्तेभ्यो ददातीति हितदा तस्याः संबोधनं हे हितदे ! २ । धरणेन्द्रपक्षे तु एवं अर्थयोजना-हे 'हिअएण' ! हे धरणेन्द्र ! त्वं इति शेषः । 'जिण' जय सर्वोत्कर्षेण वर्तस्व, हृदयेन उरसा गच्छंतीति हृदयगा उरगास्तेषां इनः स्वामी हृदयगेनः नागराजो धरणेन्द्रः तस्य सं० हे हिअयगेण ! हे हृदयगेन ! "किसलय १ कालायस २ हृदये यः" (प्रा. १।२६९) इत्यनेन सस्वरयलोपे “कगचजतदपयवां प्रायो लुक्” (प्रा० १११७७) दगयोपि च 'हिअय' त्ति रूपं तत इनशब्देन सह संधौ ‘हिअएण'त्ति सिद्ध । ता इति तस्मात् हे देव हे भवनपतीन्द्र ! मह्यं बोधिं देहि भवे भवे हे पासजिणचंदः पाशं कर्मबन्धं जयंति इत्येवं शीला अचि, पूर्ववत् णे च पाशजिणाः पाशजेतारः सुविहितसाधवस्तान् प्रति चन्द्र इव उपसर्गतापनिर्वापणेन आह्लादकत्वात् , तस्यामन्त्रणं हे पासजिणचन्द ! । अथवा पाशेन जयति शत्रून् वशं नयतीति प्राकृते पासजिणा पद्मावती तां चेदयति आह्लादयति भर्तृत्वात् अचि प्रत्यये पासजिणचंद्रः तस्य सम्बोधनं हे पासजिणचन्द्र ! 'जिण' इत्यत्र हूस्वत्वं च "दीर्घहस्वौ मिथोवृत्तौ" इति प्राकृत (१।४) सूत्रात् । अस्यां पश्चमगाथायां शान्तिक पौष्टिकं च भूतप्रेतशाकिनीज्वरादिनाशनं सर्वरक्षा च निक्षिप्ता । मन्त्राश्चात्र दुष्टकोत्थापनपुरक्षोभक्षेमकरणादिकार्यसाधकाः । अनेनैव स्तोत्रेण त्रिसप्तकृत्वः (२१) अष्टशतं (१०८) च अभिमन्त्रितेन धूपबलिकर्मादिना कृतोपवासः पुरुषः तत्तदनर्थसाथै व्यर्थयति, इति पञ्चमगाथार्थः ॥५॥
तथा सर्वविद्यानां मन्त्राणां च उपादानकारणं पञ्चपरमेष्ठिनमस्कारः । तत्र परमेष्ठिनो नमस्करणीयाः । ते च अत्र स्तवे सूचिताः सन्ति । तत्र प्रथमगाथायां प्रथमपदे 'उवसग्गे'ति उवशब्दे 'उप' इति अक्षरद्वयं 'पोव' इति पस्य वत्वं पदैकदेशे पदसमुदायात् उपशब्देन उपाध्यायाः। तथा द्वितीयगाथामेव प्रथमपदे 'विसहरे ति विषशब्देन साधव उच्यन्ते, विषमिवविषं सर्वरसात्मकत्वोपदर्शनात् , विषभूता हि साधवः तत्तत्पात्रापेक्षया तत्तद्रसस्पृशो भवन्ति । उक्तं च भगवता प्रस्तुतस्तोत्रकारेणैव दशवैकालिकनियुक्तौ श्रमणानां विषसमानत्वं २ । तृतीयगाथायां प्रथमपदे 'चिट्ठउ' इत्यत्र वर्णद्वयेन आचार्याः उक्ताः कथं ? तीर्थंकरेषु मोक्षं गतेष्वपि तीर्थ यावत् पश्चादपि तिष्ठंतीति । प्राकृतलक्षणः 'चिट्ठादेशः' । अथवा चित् तत्त्वज्ञानं द्रव्यगुणपर्यायैरनुयोगस्वरूपा तत्र तिष्ठन्तीति चिस्था सूरयः प्राकृते 'चिठ्ठ' इति ३ । चतुर्थगाथायाः प्रथमपादे 'तुह' इति वर्णद्वयेन अर्हन्त उक्ताः, कथं ? 'तुह दुह अर्दने' तोहंति-अर्दयन्ति घातिकर्मचतुष्टयं सकलजगत्संशयराशि वा इति तुहा विहरमाणा उत्पन्नकेवलज्ञानाः, नाम्युपांतलक्षणे के "तुह" इति रूपं ४ । पञ्चमगाथायां आदौ 'इय' इति वर्णद्वयेन सिद्धाः । कथं ! "इण् गतौ” इता गता अपुनरावृत्तयो मोक्षमिति ५ ॥ इति पञ्च परमेष्ठिनः । अत्र यद्यपि अर्हतामेव मुख्यत्वं युक्तं तथापि एतत् स्तोत्रं श्रुतकेवलिरचितत्वात् सूत्रं, तच्च उपाध्यायै
For Private And Personal Use Only