SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपूर्वाचावविरचितः किंविशिष्टा यक्षाः ? संप्राप्तशिवसौख्याः, संप्राप्तं शिवसौख्यं कल्याणसुख यैस्ते सं० । अथवा भाविनि भूतो. पचारात् संप्राप्त संप्राप्स्यमानं शिवस्य मोक्षस्य सौख्यं येषां ते सं० । भगवत्सेवाकरणेन शुद्धसम्यक्त्वधरणेन संघवैयावृत्त्याचरणेन च आसन्नसिद्धिगामित्वात्तेषाम् ॥५॥ अप्पडिचक्कापमुहा, जिणसासणदेवयावि जिणपणया । सिद्धाइआसमेआ, हवंतु संघस्स विग्घहरा ॥६॥ व्याख्या-जिनशासनदेवता अपि संघस्य विग्घहरा विघ्नविनाशका भवन्तु । किंविशिष्टा जिनशासनदेवताः? अप्रतिचक्रा प्रमुख आदिर्यासु ताः अप्रतिचक्रा०। पुनः किंविशिष्टा जिनशासनदेवताः ? जिनप्रणताः, जिनं तीर्थंकरं प्रणताः । पुनः किंविशिष्टा जिन० ? सिद्धायिकासमेताः, सिद्धायिकया देन्या समेताः सहिताः॥६॥ सकाएसा सच्चउरपुरडिओ वद्धमाणजिणभत्तो। सिरिखंभसंतिजक्खो, रक्खड संघ पयत्तेण ॥७॥ व्याख्या-श्रीब्रह्मशान्तियक्षः संघ प्रयत्नेन रक्षतु । किंविशिष्टः श्रीब्र० शक्रादेशात्-इन्द्रादेशात् 'सत्यपुरे' साचोरनामनगरे स्थितः, सत्यपुरनगरवर्तमान-श्रीमहावीरदेवमूर्तेः इन्द्रस्य आदेशेन अधिष्ठायको जातो ब्रह्मशातियक्षः । अत्रार्थे सम्बन्धस्तु लघुखरतरगच्छीय-श्रीजिनरत्नप्रभसूरिकृतप्रतिष्ठाकल्पतो ज्ञेयः । पुनः किंविशिष्टो ब्रह्मशान्तियक्षः ? वर्द्धमानजिनभक्तः वर्धमानजिनस्य भक्तो वर्धमानजिनभक्तः ॥७॥ खित्तगिहगुत्तसंताणदेसदेवावि देवया ताओ। निव्वुइपुरपहिआणं, भव्वाण कुणंतु सुक्खाणि ॥८॥ व्याख्या-क्षेत्र १ गृह २ गोत्र ३ सन्तान ४ देश ५ देवा अपि पुनर्देवताच क्षेत्रादिसम्बन्धिन्यः भव्यानां सौख्यानि कुर्वन्तु, इत्युक्तिः । क्षेत्राणि च गृहाणि च गोत्राणि च सन्तानानि च देशाश्च क्षेत्रगृहगोत्रसन्तानदेशास्तेषां देवा देव्यश्च । किं विशिष्टानां भव्यानां निर्वृतिपुरपथिकानां, निर्वृतिः यो मोक्षः स एव पुरं निर्वृतिपुरं मोक्षनगरं तस्मै गमनाय ये पथिकास्तेषाम् ॥८॥ चक्केसरी चक्रधरा, विहिपहरिउछिन्नकंधरा धणि। सिवसरणिलग्गसंघस्स सव्वहा हरउ विग्धाणि ॥९॥ व्याख्या-चक्रेश्वरी देवी शिवसरणिलग्नसंघस्य विनानि सर्वथा सर्वप्रकारेण हरतु दूरीकरोतु, 'शिवस्य' मोक्षस्य 'सरणि' र्गिस्तत्र लग्नो यः संघः शिवसरणिलग्नसंघस्तस्य शिव० । किंविशिष्टा चक्रेश्वरी ? चक्रधरा चक्र हस्ते शस्त्रं धरतीति चक्रधरा । पुनः किंविशिष्टा चक्रेश्वरी 'विधिपथरिपुछिन्नकन्धरा' विधिपथस्य सुविहितमार्गस्य ये रिपवो मिथ्यात्विवैरिणस्तेषां छिन्ना कन्धरा ग्रीवा यया सा विधि० धणिअं अत्यर्थम् ॥९॥ तित्थवइवद्धमाणो, जिणेसरो संगओ सुसंघेण । जिणचंदोऽभयदेवो, रक्खउ जिणवल्लहो पहु मं॥१०॥ व्याख्या-'तीर्थपतिवर्धमानो' मा प्रति रक्षतु, इत्युक्तिः । तीर्थपतिश्चासौ वर्धमानश्च तीर्थपतिवर्धमानः । किंविशिष्टः तीर्थपति० १ 'जिनेश्वरः' जिनानां सामान्यकेवलिना ईश्वरः स्वामी । पुनः किंविशिष्टः तीर्थपतिः ? 'सुसंघेन' सु सुष्टु संघेन संगतः सहितः । पुनः किं० तीर्थपतिः ? जिनचन्द्रः, जिनेषु सामान्यकेबलिषु चन्द्र इव चन्द्र आहादकत्वात् । पुनः किंविशिष्टः तीर्थपतिः ? अभयदेवः, न विद्यते भयं यस्य स अभयः, अभयश्चासौ For Private And Personal Use Only
SR No.020658
Book TitleSaptasmaran Stava
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy