________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपूर्वाचार्यविरचितः अथ सम्यक्त्वज्ञानयोरनुगामि एव चारित्रं, ततश्चारित्रं स्तुवन्नाह--
रम्मो चरित्तधम्मो, संपावियभव्वसत्तसिवसम्मो।
नीसेसकिलेसहरो, हवउ सया सयलसंघस्स ॥९॥ व्याख्या-'चारित्रधर्मः' 'सयलसंघस्स'-समस्तसंघस्य निःशेषक्लेशहरो भवतु सदा । निःशेषाः समस्ता ये क्लेशास्तान् हरतीति निःशेषक्लेशहरः । क्रिविशिष्टो धर्मः ? रम्यो-मनोहरो जीवदयारूपत्वात् । पुनः किंविशिष्टो धर्मः ? संप्रापितभव्यसत्त्वशिवशर्मः, संप्रापितं भव्यसत्त्वानां शिवस्य शर्म सुख येन सः सं० ॥९॥ अथ सम्यक्त्वज्ञानचारित्राराधकाः श्रीमुखा एव अतो गुरून् स्तुवन्नाह--
गुणगणगुरुणो गुरुणो, सिवसुहमइणो कुणंतु तित्थस्स ।
सिरिवद्धमाणपहुपय-डियस्स कुसलं समग्गस्स ॥१०॥ व्याख्या-गुरवः धर्माचार्याः श्रीहरिभद्रसूरि-मलयगिरि-शीलांगाचार्यादयः । तीर्थस्य समग्रस्य-समस्तस्य कुशलं कुर्वन्तु । किंविशिष्टा गुरवः ? 'गुणगणगुरवः' गुणाः प्रतिरूपादयः षट्त्रिंशत् तेषां गणः समूहः तेन गुरवो गरिष्ठाः। पुनः किंविशिष्टा गुरवः ? 'शिवसुखमतयः' शिवसुख-मोक्षसौख्ये निःसांसारिकसुखे मतिर्येषां ते शिवसुखमतयः । किंविशिष्टस्य ? श्रीवर्धमानप्रभुप्रकटितस्य-श्रीवर्धमानप्रभुणा प्रकटितस्य प्ररूपितस्य श्री० ॥१०॥
___ अथ धर्म कुर्वतां भव्यानां विघ्नान्तरायहराः साहाय्यकराश्च सम्यग्दृष्टिसुरा गोमुखयक्षादयः अतस्तान् स्मरन्नाह--
जिअपडिवक्खा जक्खा, गोमुह-मायंग-गयमुह पमुक्खा ।
सिरिवंभसंतिसहिआ, कयनयरक्खा सिर्व दिंतु ॥११॥ व्याख्या-यक्षाः संघस्येति शेषः 'शिव' कल्याणं उपद्रवनिवारणं ददतु। किंविशिष्टा यक्षाः ? 'जिअपडिवक्खा' जिता निहताः प्रतिपक्षाः जिनशासनस्य प्रत्यनीकाः यैस्ते जितप्रतिपक्षाः । पुनः किंविशिष्टाः यक्षाः ? गोमुखमातङ्गगजमुखप्रमुखाः गोमुखश्च-मातंगश्च-गजमुखश्च गोमुखमातंगगजमुखाः ते प्रमुख आदि येषां ते गोमुखमातंगगजमुखप्रमुखाः । पुनः किंविशिष्टाः यक्षाः ? श्रीब्रह्मशान्तिसहिताः । पुनः किंविशिष्टाः यक्षाः ? 'कयनयरक्खा' कृता नतानां भगवत्प्रणतानां रक्षा यस्ते कृतनतरक्षाः ॥११॥ पुनस्तान् स्तुवन्नाह--
अंया पडिहयडिया, सिद्धा सिद्धाइआ पवयणस्स ।
चक्केसरि वइरुट्टा, संतिसुरा दिसउ सुक्खाणि ॥१२॥ व्याख्या-अम्बा श्रीनेमिनाथस्य उपासिका देवी। किंविशिष्टा देवी अंबा ! प्रतिहतडिंबा, दूरीकृतोपसर्गविप्लवा १ । तथा सिद्धायिका शासनदेवता । किंविशिष्टा सिद्धायिका ? सिद्धा-श्रीवर्धमानस्वामिशासनरक्षाकरणेन प्रसिद्धा २ । तथा चक्रेश्वरी ३ वैरोट्या ४ शान्तिसुरा च ५ । इत्येतद्देवतापञ्चकं प्रवचनस्य चतुर्विधसंघस्य सौख्यानि दिशतु ॥१२॥ पुनराह
सोलस विजादेवीओ दितु संघस्स मंगलं घिउले । अच्छुत्तासहियाओ, विस्सुयसुयदेवयाइ समं ॥१३॥ . . .
For Private And Personal Use Only