________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपूर्वाचार्यविरचितम् भैरवो वः आक्रन्दध्वनिः तेन भियं भयं श्रोतृणां सनोति ददाति इति भीसनं भयप्रदं तस्मिन् । अथवा दह्यमाना मुग्धा मृगाः आरण्याः पशव तेषां बहुः विस्तीर्णो यो भीषणो रव आर्तस्वरः कोलाहलस्तेन भीसनं भयप्रदं तस्मिन् ॥६-७॥
अथ गाथायुगलेन सर्पभयापहारं आहविलसंतभोगभीसण-फुरियारुणनयणतरलजीहालं । उग्गभुयंगं नवजलय-सत्यहं भीसणायारं ॥८॥ मन्नंति कीडसरिसं दूरपरिच्छूढविसमविसवेगा। तुह नामक्खरफुडसिद्धमंतगुरुआ नरा लोए ॥९॥ युग्मम् ॥
व्याख्याः-हे श्रीपार्श्वनाथ ! एवंविधा ये नरा लोके एवं विधमपि 'उग्रभुजंग'-दुष्टसर्प कीटसदृशं कीटेन गोमयकीटादि तथाविधनिर्विषकीटकतुल्यं मन्यते इत्युक्तिः । किंविशिष्टाः नराः ? 'तुह नामक्खरफुडसिद्धमन्तगुरुआ' । 'तव' भवतः यानि श्रीपार्श्वनाथेति नामाक्षराणि तान्येव स्फुटः प्रकटप्रभावः सिद्धानां जांगुल्यादिविद्यानां सम्बन्धी यो मन्त्रो गारुडादिसिद्धमन्त्रो द्वादशाक्षरी प्रमुखः तेन गुरवः एव गुरुकाः नामाक्षरस्फुटसिद्धमन्त्रगुरुकाः । पुनः किंविशिष्टाः नराः ? 'दूरपरिच्छूढविसमविसवेगा' ? 'दूरं' अत्यर्थ परि-सामस्त्येन ‘च्छूढः' क्षिप्तः दूरीकृतो विषमो दुस्सहो विषमवेगो लहरीप्रसरो यैस्ते दूरपरिच्छुढविसमउम्गविषवेगाः । त्वन्नाममन्त्रजापमाहात्म्यात्तस्य भुजगस्य विषमोऽपि विषवेगो दूरीकृतस्तैरिति फलितार्थः । किंविशिष्ट भुजंगविलसितं 'भोगभीसणफुरिआरुणनयणतरलजीहालं' । विलसन् भोगः शरीरं यस्य स विलसद्भोगः। अथवा विलसन्तो भोगाः फणा यस्य सः विलसद्भोगः । “भोगो हि कायफणयोरिति” वचनात् । पुनः न विद्यते भीभयं यत्र तत् अभिनिर्भयं यत् ईषणं दर्शनं अभीषणं । इषधातोः गति, हिंसा २ दर्शनेषु ३ धातुपाठे उक्तत्वात् । तस्मै अभीषणाय स्फुरिते परिस्पन्दवती अरुणे आरक्ते नयने नेत्रे यस्य सः। अभीषणस्फुरितारुणनयनः । पुनः तरले लपलपायमाने जिह्व-रसने यस्य सः तरलजिह्वालः ततः कर्मधारयः । विलसद्भोगश्चासौ अभीषणस्फुरितारुणनयनश्चासौ तरलजिह्वालश्च विलसद्धोगभीषणस्फुरितारुणनयनजिह्वालः तं वि० । 'जिबालेति' प्राण्यंगत्वात् इति मत्वर्थीयो लः प्रत्ययः । अथवा तरलजिह्वाभ्यां सकाशात् अलमनर्थो लोकानां यस्मात् स तरलजिह्वालः । पुनः किंविशिष्ट 'उप्रभुजंग नवजलयसत्थहं' । नवश्चासौ जलदो मेघो नवजलदः तेन 'सत्थहं' इति देशीवचनात् सदृशं तद्वत् श्यामवर्णमित्यर्थः । पुनः किंविशिष्टं उग्रभुजंग भीसणायारं' भीषणो भयंकरः आकार आकृतिर्यस्य सः भीषणाकारस्तं । अथवा भीषणः आ-समंतात् चारः इतस्ततश्चलनरूपो व्यवहारः यस्य स भीषणाचारस्तम् ॥८-९॥
अथ चोरारिभयापहारमाहअडवीसु भिल्ल-तकर-पुलिंद-सद्लसद्दभीमासु । भयविहलवुन्नकायर-उल्लूरीयपहिअसत्थासु ॥१०॥ अविलुत्तविहवसारा तुह नाह पणाममत्तवावारा । ववगयविग्घा सिग्धं पत्ता हि अ इच्छिअं ठाणं ॥११॥
व्याख्याः हे नाथ ! 'तुह पणाममत्तवावारा अडवीसु अविलुत्तविहवसारा इच्छियं ठाणं सिंघ पत्ता' 'तव' भवतः(भावतः) प्रणामश्च प्रणिपातः केवलं प्रणामः प्रणाममात्रं स एव व्यापारः कर्तव्यं येषां ते तव
For Private And Personal Use Only