________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तवम् अथ स्तोत्रं समर्थयन् प्रार्थनां कुर्वन्नाहइय विजयाजियसत्तुपुत्त ! सिरिअजियजिणेसर!
तह अइराविससेणतणय ! पंचमचक्कीसर। तित्थंकर ! सोलसम संतिजिण ! बल्लह ! संथुअं
कुरु मंगल मम हरसु दुरिअमखिलंपि थुणंतह ॥१७॥ व्याख्या हे अजितजिनेश्वर ! त्वमिति शेषः । मंगलं कुरु केषां इति पूर्वोक्तप्रकारेण स्तवतां-स्तवनं पठताम् । पुनः त्वं 'अखिलं' समस्तं मम दुरितं अपहर इत्युक्तिः । हे विजयाजिअसत्तुपुत्त! विजया राज्ञी माता जितसत्रुनामा पिता तयोः पुत्र विजयाजितसत्रुपुत्रस्तस्य सम्बोधनं हे वि० । तथैव हे शान्तिजिन ! त्वमपि मंगलं कुरु । पुनस्तवतां दुरितं अपहर। हे अचिराविश्वसेनतनय ! अचिरा राज्ञी माता विश्वसेनो राजा पिता तयोस्तनयः पुत्र अचिराविश्वसेनतनयस्तस्य सम्बोधनं हे अ०। पुनः पंचमचक्कीसर हे तीर्थकर ! हे षोडशम ! हे वल्लभ ! केषां सतां-साधूनां । अत्र “जिनवल्लभ" इति पदेन स्तोत्रकर्ता श्रीजिनवल्लभसूरिणा भंग्यन्तरेण स्वनाम सूचितम् । अत्र स्तोत्रे श्रीअजितनाथश्रीशान्तिनाथयो मदाने एव सार्थके महाप्रभावो ज्ञातव्यः। तथा यद्यपि भगवन्तः सर्वेऽपि विजयहेतवः श्रेयोहेतवश्च, तथापि विशेषतो विजयः शान्तिश्च एताभ्यां श्रीअजितशांतिभ्यामेव चक्रे, इति हेतोरेव संलमयोः पाक्षिकादिपर्वणि स्तोत्रं अभिधीयते । न च एतत्(पठन) वचनं स्वाभिप्रायेण प्रोक्तं, किन्तु श्रीमहावीरशिष्यश्रीनन्दिषेणमहाऋषिणापि विशेषतः पाक्षिकादिपर्वणि वाच्यं श्रीअजितशान्तिनाथयोः स्तवनं कृतमस्ति । अतः कारणात् तस्य अनुक्रमं अनुवर्तमानः श्रीजिनवल्लभसूरिरपि तथैव संलग्नां स्तुतिं चकार । अत्र स्तोत्रे प्रथमवृत्ते शार्दूलविक्रीडितछन्दः । ततो वृत्तपञ्चदशके मालिनीछन्दः । अन्तिमे च वृत्ते द्विपदीछन्दः । अत्र तु मया शिष्यबोधार्थ सुगमं शब्दार्थविवरणं उक्तिलापनपूर्वकं कृतमस्ति, विस्तारार्थिना तु श्रीधर्मतिलकमुनिविरचिता वृत्तिर्विलोकनीया । श्रीउल्लासिक्रमस्तोत्रवृत्ति समयसुन्दरः । चक्रे स्वपरशिष्याणां शीघ्रं संबोधहेतवे ॥१॥
तृतीयस्तवम् नमिऊण स्तवस्याथ तृतीयस्मरणस्य वै । विदधातितरां वृत्तिं गणिः समयसुन्दरः ॥१॥
तत्र प्रथमं श्रीमानतुंगसूरिः शिष्टसंकेतपालनार्थ विघ्नविनाशाय मंगलाचरणपूर्वकं श्रीपार्श्वनाथस्तवनं प्रस्तावनागाथामाह
नमिऊण पणयसुरगण-चूडामणिकिरणरंजिय मुणिणो।
चलणजुयलं महाभय-पणासणं संथवं [वो] वुच्छं ॥१॥ व्याख्याः-अहमिति शेषः। 'मुणिणो संथवं वुच्छं' इत्युक्तिः मन्यते जानाति जगतस्त्रिकालावस्थामिति मुनिः प्रस्तावात् सर्वज्ञः, श्रीपार्श्वनाथः, तस्य मुनेः संस्तवं स्तोत्रं 'वुच्छं' इति वक्ष्ये भणिष्यामि । किं कृत्वा ? अग्रे पञ्चमगाथायां 'पासजिणचलणजुअलं' इति वक्ष्यमाणत्वात् श्रीपार्श्वनाथस्य 'चरणजुयलं नमिऊण'-चरणजुगलं चरणकमलयुग्मं प्रणम्य मनोवाक्कायैः प्रकर्षेण नत्वा । किंविशिष्टं 'चरणयुगलं' प्रणतसुरगणचूडामणिकिरणरंजिये । प्रणता ये सुरगणाः देवसमूहास्तेषां 'चूडाः' शिखाः तासु मणयो रत्नानि तेषां किरणैः रंजित-प्र०। तत्-किंविशिष्टं संस्तवं महाभयप्रणाशनं महान्ति च यानि भयानि महाभयानि तानि प्रकर्षेण आधिक्येन नाशयति स्फोटयति महाभयप्रणाशनः तं महाभयप्रणाशन । अत्र कर्तरि अनट् प्रत्ययः ॥१॥
For Private And Personal Use Only