________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०
श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् .
तथा राजा
नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद , उक्तं च लोकिकैः"क्षुद्रलोकाकुले लोके, धर्म कुयुः कथं हि ते । क्षान्ता दान्ता अहंतार,-श्चेद्राजा तान्न रक्षति ॥ १ ॥ तथा 'अराजके हि लोकेऽस्मिन् , मर्यतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य, राजानमसृजत् प्रभुः ॥ २ ॥” इति तथा गृहपतिः-शय्यादाता, सोऽपि निश्रास्थानं, स्थानदानेन संयमोपकारित्वात् , तदुक्तम् - " धृतिस्तेन दत्ता मतिस्तेन दत्ता,
गतिस्तेन दत्ता सुखं तेन दत्तम् ॥ गुणश्रीसमालिङ्गितेभ्यो परेभ्यो,
मुनिभ्यो मुदा येन दत्तो निषासः" ॥ १॥ तथा “जो देह उधरलयं जइवराण, तपनियम जोगजुत्ताणं ।। तेणं दिन्ना पत्थन्नपाण, सयणासणविगप्पा ॥१॥” इति [यो ददात्युपाश्रयं यतिवरेभ्यस्तपोनियमयोगयुक्तेभ्यः ॥ तेन दत्ता वस्त्रानपानशयनासनविकल्पाः ॥ १ ॥ ] तथा शरीरं-कायः, अस्य च धर्मोपप्राहिता स्फुटैष, यतोऽवाचि"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः ॥ शरीराच्यते धर्मः, पर्वतात् सलिलं यथा ॥ १ ॥” इति भवति चात्रार्या"धर्मं चरतः साधो-लोके निश्रापदानि पञ्चव ॥ रामा गृहपतिरपरः, षटकाया गणशरीरे च ॥ २ ॥" इति शेष सुगमं, श्रमणस्य निश्रास्थानाम्युक्तानि.) । एभिरक्षरैर्गणः प्रमाणं । गणगच्छयोरेकाथिकत्वं प्रसिद्धं ।
For Private And Personal Use Only