________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७४ उत्सूत्रतिरस्कारनामा-विचारपटः त्रिसंख्ययामंगलकरणं च ।। शालामध्ये साधुजिनप्रतिमानां स्थितिः ॥ साधुभिस्तस्य संभालादिविधानं ॥ चातुर्मासकप्रारंभे प्रसभं पंचाशत्स्नात्रलेखनं साधुभिः श्रावकाणां ॥ पर्युषणापर्वणि स्वहस्तेन पुस्तकदानं जागरण करणं च ।। चैत्रशुक्लत्रयोदशीजातस्य श्रीवीरस्य भाद्रपद-सुक्लपतिपदपराह्ने जन्मोत्सवकारण। अनेक गोधूम चूर्णमुपदालिधृतगुड जीरकसुंठीप्रमुख वेषवारजुगमुशलादिवस्तु समानयनं । तद्धिविधापनं च॥ अजित शांतिस्तव कथने तैलस्य वृद्धि कारणं ।। मालारोपणे सुवर्णरूप्यप्रवाल मुक्ताफलसूत्र पट्ट मूत्रमाला कारणं कस्योपदेशात् ॥ क्षुत्करणे पर्वणि तालककुट्टनं पादप्रहारदानं । यः करोति स लिप्यते इत्यादि दुर्वचनकथनं प्रायश्चित्तदानं । देवगृहे धृपदीपदानं कस्यायमुपदेशः ॥ सम्यक्त्वमोदक कारणे प्रतिष्ठा वासक्षेपश्च वस्त्रादिग्रहणं कोयमुपदेशः कस्मिन् सूत्रे मिलति ॥ अष्टोत्तरीस्नात्रकारणेनोपद्रवोपशांतिपरूपणं ॥ गुरुणा स्वयं मंत्रादिजापे श्रावकाणां समीपात् पृथक फलादीनां प्रतिमापुरतो मोचनं ॥ मासजातस्य बालस्य तिलककरणं वासक्षेपनामस्थापनं ॥ पुस्तिकावेष्टन द्रव्यादिग्रहणं ॥ पंचम्यादितपसामुद्यापने पंचादिवस्तुमोचनं ॥ पर्वादि दिवसेषु गुरूणां पुरतः कुंकुमेन गृहलिकाकरणं उपरि द्रव्यमोचनं स्त्रीभिः स्व. हस्तैस्तंदुलगुरूणां न्युछनकरणं तंदुलोच्छालनं स्पर्शश्च । अत्रार्थे कस्य साधोरुपदेश इत्यादि बहस्ति परं वर्णिकामात्रं लिखितमस्ति ॥ये साधूनां विहितप्रतिष्टां न मन्यते ते केषां
For Private And Personal Use Only