SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११० श्रीसामाचारी समाश्रितं - श्री सप्तपदी शास्त्रम् . क्रमते, दण्डभयाश्च सर्धा प्रजा विभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथा सम्भवमायोजनीयम् अत्र च बन्दनादीनां इसमास ( पकवद्भावं च ) कृत्वा तादयें चतुर्थी विधेया, परिवन्दनमानन पूजनाय जीवितस्य कर्माभवेषु प्रवर्तन्त इति समुदायार्थः । न केवलं परिवन्दनाथर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयति-जातिश्व मरणं व मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादयें चतुर्थी पतदर्थं च प्राणिनः क्रियासु प्रवर्तमानाः कर्माददते, तत्र जात्यर्थ कौश्चारि (कार्तिकेय) वन्दनादिकाः क्रिया विधत्ते, तथा यान् यान् कामान् ब्राह्मणादिभ्यो ददाति तांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुनाऽप्युक्तम्- "वारिदस्तृप्तिमाप्नोति, सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टामायुकमभयप्रदः ॥ १" अत्र चैकमेव सुभाषितम्- 'अभयप्रदान' मिति तुपमध्ये कणिकावदिति एषमादिकुमार्गोपदेशाद हिंसादौ प्रवृत्तिं विदधाति । तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवर्तते, यदि वा ममानेन सम्बन्धी व्यापादितस्तस्य बैरनिर्यातनार्थं बधबन्धादौ प्रवर्त्तते, यदि षा मरणनिवृत्त्यर्थमात्मनो दुर्गाद्युपयाचितमजादिना बलि विषत्ते यशोधर इव पिष्टमयकुक्कुटेन, तथा मुक्त्यर्थमज्ञानाघृतचेतसः पञ्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमई कारिषु प्रवर्त्तमानाः कर्माददते, यदि वा जातिमरणयोविमोचनाय हिंसादिकाः क्रियाः कुर्वते, 'जाइमरणभोयणापत्ति वा पाठान्तरं तत्र भोजनार्थं कृष्यादिकर्मसु प्रवर्त्तमाना वसुधाजलज्वलन पवन वनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातमुररीकृत्यात्मपरित्राणार्थमारम्भानासेवन्ते तथाहि व्याधिवेदनार्त्ता लायकपिशितम. दिरादि आसेवन्ते, तथा वनस्पतिमूलत्वक्पत्रनिर्यासादि , www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , - For Private And Personal Use Only 2
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy