________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीः। शास्त्रमुक्तावळी ।
श्रीम पंचगुरुभ्यो नमः । सप्तभ ङ्गी त र ङ्गिणी ।
वन्दित्वासुरसन्दोह वन्दितांनिसरोरुहम् ।
श्रीवीरं कुतुका रकुर्षे सप्तभङ्गीतरंगिणीम् ॥ इहखलु तत्त्वार्थाधिगमोपायं प्रतिपादयितुकामः सूत्रकारः " प्रमाणनय रधिगम " इत्याह । तत्राधिगमो द्विविधः - स्वा. र्थः, परार्थश्चति । स्वार्थाधिगमो ज्ञानात्मको मतिश्रुतादिरूपः । परार्थाधिगम शब्दरूपः । सच द्विविधः - प्रमाणात्मको नयात्मकश्चेति । कात्यंत स्तस्वार्थाधिगमः प्रमाणात्मकः । देशत स्तत्वार्थाधिगमो नयात्मकः । अयं द्विविधोपि भेद स्वप्तधा प्रवर्तते , विधिप्रतिषेधमाधान्यात् । इयमेव प्रमाणसप्तभंगी नयसप्तभंगीतिच कथ्यते । सप्तानां भंगानां - वाक्यानां, समाहा. रः . समूहः, सप्तभंगीति तदर्थः । . तानिच वाक्यानि - " स्या दस्त्येव घटः ॥ १ ॥ स्या ब्रास्त्येव घटः ॥ २ ॥ स्या दस्ति नास्तिच घटः ॥३॥ स्या दवक्तव्य एव ॥ ४॥ स्या दस्तिचा वक्तव्यश्च ॥ ५ ॥
For Private and Personal Use Only