SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तभंगी तरंगिणी। नैयापिकास्तु - द्रव्यत्वादिकं सामान्यविशेष मभ्युपगच्छन्ति । भनुवृत्तिव्यावृत्तिप्रत्यय विषयत्वा द्रव्यत्वादिकं सामान्यविशेषः । द्रव्यं द्रव्य मित्यनुगत बुद्धिविषयत्वा त्सामान्यम् । गुणो नद्रव्यं कर्म नद्रव्यमिति व्यावृत्तिबुद्धिविषयत्वा द्विशेषाति । एवंच सामान्यविशेषात्मकत्व मेकस्पाभ्युपगतम् । एवं गुणत्वं कर्मत्वं च सामान्यविशेषइति बोध्यम् । - सौगतास्तु - मेचकज्ञान मेक मनेकाकार मभ्युपगच्छन्ति । पञ्चवर्णात्मकं रत्नं मेचकम् । तज्ज्ञानं नैकप्रतिभासात्मकमेव , चित्रज्ञानत्वविरोधात । नीलपीतादि नानाकारज्ञानहि चित्रज्ञानं , नवेकाकारमेव । नापि मेचकज्ञान मनेकमेव , मेचकज्ञान मिद मित्यनुभवविरोधात् , इमानि मेचकज्ञानानी त्यनुभवप्रसंगाच्च । ततश्च सदेकानेकात्मकं चित्रज्ञानं सौगतादीना मभिमतम् । चार्वाकास्तु . " पृथिव्यापस्तेजोवायुरिति चत्वारि तत्वानि, तेभ्य श्चैतन्यं , किण्वादिभ्यो मदशक्तिवत् ” इति पार्हस्पत्यसूत्रानुरोधा त्प्रथिव्यादिभूतचतुष्टयपरिणाम चैतन्यमिति वदन्ति । तन्च न पृथिव्याद्यपेक्षया अतिरिक्त मेकं ते रभ्युपगम्यते, तत्वान्तर प्रसंगात् , भूतचतुष्टयवादव्याघातात । नापि पृथिव्यादिक मेकैक मेव तत, घटादेरपि चेतनत्वापत्तेः । किन्तु पृथिव्या द्यनेकास्मक मेकं चैतन्यमिति । . मीमांसकास्तु - प्रमाप्रमिति प्रमेया कारमेकं ज्ञानम् , घटमहमानामीत्यनुभवात ; ज्ञानानां स्वतः प्रकाशत्वात् , इतिवदन्ति । तत्रानेक पदार्थ निरूपित विषयताशा ल्येकं ज्ञाने स्वीकृतम् । विषय. तानां च ज्ञानस्वरूपत्वा ताशविषयतात्रयात्मकमेकं ज्ञानं स्वीकृत मिति । For Private and Personal Use Only
SR No.020655
Book TitleSaptabhangi Tarangini
Original Sutra AuthorN/A
AuthorVimaldas, Anantacharya
PublisherSudarshan Mudrakshar Shala
Publication Year1901
Total Pages61
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy