________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अग्रे चास्त्येव जीवः इति वाक्येऽस्ति स्वभावात् ( अस्तिपद) वाच्यार्थभिन्नखभावो जीवशब्दवाच्याथोऽभिन्नस्वभावो वा? अभिन्नस्वभावेऽस्ति जीवयोरेकार्थकत्वेन विशेष्यविशेषणभावाभावाद्धटकलशशब्दार्थयोरिव वाक्यार्थबोधाभावः । भिन्नस्वभावत्वे च जीवस्यासद्रूपतापत्तिः सत्त्वाद्भिन्नस्यासद्रूपतात्पर्यावसानात् । एतत्समाधानं च द्रव्यार्थिकनयापेक्षयाऽस्ति जीववाच्यार्थयोरभिन्नत्वं पर्यायार्थिकनयेन च भिन्नवमित्यनेकान्तवादिनां न दोषलेशाऽवकाशत्वमनयादिशाभङ्गद्वयनिरूपणं कृतमित्यलमतिविस्तरेण ।
अथ तृतीयादिभङ्गनिरूपणप्रस्तावना । भङ्गद्वयं निरूप्याचार्येण तृतीयादिभङ्गानां निरूपणमारब्धम् । स च स्यादस्ति नास्ति च घट इत्याकारकः । घटायेकधर्म्यनुयोगिकक्रमार्पितविधिप्रतिषेधप्रतियोगिकबोधलक्षणकवाक्यवं च तल्लक्षणमभिहितम् । तत्र च क्रमशोऽर्पितखपररूपाद्यपेक्षयाऽस्तिनास्तिखरूपो घटो भवतीति प्रायशो निरूपितमेवेति पूर्वप्रस्तावनादेव बोध्यम । सहापितखरूपपररूपविवक्षायां च घटरूपानिरूपणमसम्भवीति स्यादवक्तव्य एव घट इति चतुर्थभङ्गप्रवृत्तिः प्रदर्शिता । तत्प्रवृत्तौ च निखिलशब्दानां युगपत्प्रधानतया सत्वासत्वप्रतिपादने शक्त्यभाव एव बीजमिति प्रदर्शितम् । प्राधान्येनोभयार्थप्रतिपादने चास्तिनास्तीत्यन्यतरशब्दाप्रयोग एव उचितः नानार्थकशब्देषु च प्रत्यर्थ शब्दा भिद्यन्त इति युक्तिरभिहिता । तेन च वाक्यानामपि युगपन्नानार्थबोधकता प्रत्याख्यातप्राया । सेनावननगरादिशब्देषु च हस्त्यश्वरथपदातिसमूहस्यैव सेनाशब्दवाच्यतेत्यङ्गीकरणान्न दोषलेशाऽवकाश इति निरूपितम् । तथा वननगरादिशब्दैरपि वृक्षप्रासादसमूहस्यैव वाच्यव्यवस्था प्रदर्शिता। _वृक्षौ वृक्षा इत्यादि द्विवचनबहुवचनान्तप्रत्येकशब्दैः कथं द्विबहुवचानार्थबोधकतेत्याशय पाणिन्यादिमत एकशेषेण जैनेन्द्रमते च खभावत एव द्विबहुवचनान्तवृक्षादिशब्दा द्विखबहुत्वविशिष्टवृक्षादिरूपपदार्थान् बोधयन्तीति समाहितम् । तत्रापि प्रधानभावेन प्रथमतो वृक्षत्वादिजात्यवच्छिन्नार्थान् बोधयित्वा पश्चाल्लिङ्गसङ्ख्याद्यन्वये च गौणतया द्वित्वविशिष्टान् बोधयन्तीति समाहितमत एवैकं पदं प्रधानभावेनानेकार्थबोधकमिति न नियमभङ्गाप्रसक्तिः । प्रमाणवाक्यस्य प्रधानताऽशेषधर्मात्मकवस्तुप्रकाशकता च कालादिभिरभेदवृत्त्या अभेदोपचारेण वा द्रव्यपर्यायनयार्पणविधयैव सकलार्थबोधकतेत्येकवाक्यस्यापि प्रधानभावेनानेकार्थप्रतिपादकतेत्यभिहितप्रायम् । ___ सखासत्वे इत्यादि द्वन्द्वस्थलेऽपि क्रमेणैव गुणप्रधानभावेनार्थप्रत्यायनम् अन्यथाऽभ्यर्हितंचेत्याद्यनुशासनानुपपत्तिः स्फुटैव । अथ च प्राधान्येनोभयपदार्थबोधनसामर्थ्याङ्गीकारेऽपि द्वन्द्वस्य प्रधानतयाऽस्तित्वनास्तित्वोभयाऽवच्छिन्नधर्मिणः प्रतिपादकशब्दाभावाद्धटादीनामवक्तव्यताक्षतैवेति निरूपितम् । अथ च सदसत्वविशिष्टं वास्त्वित्वादिपदेन द्वन्द्वगर्भतत्पुरुषेण सदसत्वविशिष्टपदेनोभयावच्छिन्नस्य वस्तुनो बोधसम्भवेन कथं प्रधानतया सत्वासत्वबोधकं पदं नास्तीति नियमः। तत्र सदसत्वविशिष्टपदार्थस्यैव प्राधान्य न तु सदसतोः तयोश्चाप्राधान्यमेवात एवोत्तरपदार्थप्रधानस्तत्पुरुष इति वचनं संगच्छत इति ।
अवक्तव्यता च प्रकृते न सर्वथाऽत एव स्याच्छब्दप्रयोगोऽन्यथा अवक्तव्यघट इत्यभिधानेऽस्तित्वादिधर्ममुखेनापि प्रथमादिभङ्गैर्घटस्य वक्तव्यतैव स्यादिति स्याच्छब्देन कथंचिदवाच्यताप्रतीतिः तथा चास्तिस्वादिरूपेण वक्तव्यतावान् घटः किन्तु प्रधानीभूतसत्वासत्वोभयधर्मरूपेण युगपदवक्तव्य इति चतुर्थभङ्गसिद्धान्तपरिपाटी। .
अथान्तिमभङ्गत्रयमाचार्येण व्यस्तसमस्तद्रव्यपायावाश्रित्यापादितं । तत्र द्रव्यस्य व्यस्तत्वे द्रव्यपर्याययोश्च सहार्पितत्वे स्यादस्ति चावक्तव्यश्च घट इति पञ्चमभङ्गप्रवृत्तिरुपन्यस्ता । वाक्यलक्षणकादिकं च मूलग्रन्थव्याख्यानेऽभिहितम्।
एवं पर्यायस्य व्यस्तत्वे द्रव्यपर्याययोश्च समस्तत्वे स्यान्नास्ति चावक्तव्य एव घट इति षष्ठभङ्गप्रवृत्तिः तत्र पृथक्पर्यायविवक्षया नास्तिवं प्राधान्येन मिलितद्रव्यपाययोजनया चावकव्यसमिति । पञ्चमभङ्गे हि पार्थक्येन द्रव्यखयोजनयास्तिवं मिलितप्रधानभूतद्रव्यपर्यायोभययोजनया युगपदवक्तव्यत्वमित्यनयोर्भेदः।
For Private And Personal Use Only