________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कार्तिक शु. 2 युगाब्द - 50871 दि. 14-11-1985 नागपुर क्षेत्रम्
शुभाशीर्व च न म्
।। श्री चन्द्रमौलीचराय नमः ।।
श्री शङ्करभगवत्पादाचार्य परम्पराऽऽगतश्री- कांची कामकोटि पीठाधिपति
जगद्गुरु श्री शङ्कराचार्य-स्वामिनाम् श्रीमठम् संस्थानम् कांचीपुरम्
यात्रास्थानम् : नागपुरक्षेत्रम्
दिनाङ्क : 14-11-85
भाषायां
भारतदेशस्य अनुत्तमा कीर्तिः संस्कृत-भाषयैव भवतीति सर्वे जानन्ति । संस्कृत वेदोपवेद-ज्योतिष-कौटिलीय-साहित्यादि - विविध विषयाणि शास्त्राणि वर्तन्ते । संस्कृतभाषायाम् अविद्यमानं किमपि अन्यभाषासु नास्ति। सर्वासां भाषाणां मूलभूता खलु संस्कृतभाषा । आधुनिके काले यावद् विज्ञानशास्त्रं प्रवृद्धं तस्यापि मूलभाषा संस्कृतभाषैव। संस्कृतभाषायां कोटिशः ग्रन्थाः वर्तन्ते । मुख्य-ग्रन्थानाम् उल्लेखः सूचना वा हिन्दी- भाषया डॉ. श्रीधर भास्कर वर्णेकर-महाशयैः संकलितः इति दृष्ट्वा वयं प्रमोदामहे । अयं कोशात्मको ग्रन्थः । अस्य पठनेन संस्कृतभाषायां यावत्-प्रकारका ग्रन्था वर्तन्ते, ते कस्मिन् कस्मिन् विषये वर्तन्ते, कियत्कालाद् आगता इति एतत् सर्वमपि परिचयरूपेण संक्षेपतः अत्र ज्ञातुं शक्यते। ततः स्वयं तत्तद्ग्रन्थपठने अभिरुचिः भविष्यति । कलकत्तीया भारतीय-भाषा-परिषद् एतद्ग्रन्थ मुद्रापणेन स्वनाम सार्थकं करोति । इति शम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
नारायणस्मृतिः