________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवसिद्धिस्तथा तत्त्वानुसन्धानं च विश्रुतम् ।।5।। कर्ता सन्मतितर्कस्य सिद्धसेनदिवाकरः। कल्याणमन्दिरस्तोत्रं चक्रे लोकमनोहरम्। न्यायावतारतत्त्वार्थटीकां चापि सुविश्रुताम् ।।6।। रचितो हरिभद्रेण षड्दर्शनसमुच्चयः। तथा चानेकान्तजयपताकाऽपि सुविश्रुता ।।7।। तामाप्तमीमांसाटीका ख्यातामष्टशतीं तथा । प्रमाणसंग्रहं चायऽ लघीयस्त्रयमेव च ।।8।। भट्टाकलंकोऽसौ चक्रे राजवार्तिकमेव च। भट्टाकलंकचरितः ख्यातो न्यायविनिश्चयः ।।9।। टीका चाष्टसहस्रीति विद्यानन्दविनिर्मिता। तत्त्वार्थसूत्रभाष्यं च श्लोकवार्तिकसंज्ञकम् ।।1010 वादिराजकृतो न्यायविनिश्चय(वि)निर्णयः । टीका स्याद्वादरत्नाकराख्या देवसूरिणा। प्रमाणतत्त्वालोकालंकाराख्यस्वकृतेः कृता ।।11।। कृता प्रमाणमीमांसा हेमचंद्रेण सूरिणा। अन्ययोगव्यवच्छेदद्वात्रिंशी च सुविश्रुता ।।12।। तट्टीका मल्लिषेणेन कृता स्याद्वादमंजरी। व्याख्यातो गुणरत्नेन षड्दर्शनसमुच्चयः ।। सा जैनतर्कभाषा च यशोविजयनिर्मिता ।13।।
धर्मशास्त्रम् धर्मसूत्रकारः गौतमापस्तम्ब-विष्णु-च्यवनात्रेयकाश्यपाः । हिरण्यकेशिकौटिल्यौ वैखानस-बृहस्पती ।।1।। गार्ग्य-कण्व-भारद्वाजाः सुमन्तुरुशना बुधः । शातातपो जातुकर्ण्यः श्रीशंखलिखितो मनुः ।।2।। वसिष्ठहरितौ बौधायनः पैठीनसिस्तथा। धर्मसूत्रप्रवक्तारः चतुर्विंशतिरेव ते ।।3।। 18-पुराणानि ब्रह्माण्डं ब्रह्म गरुडं ब्रह्मवैवर्तमग्नि च। वराहं वामनं स्कन्दं मत्स्यं कूर्म च नारदम् ।।4।। मार्कण्डेयं भागवतं भविष्यं लिंगमेव च। वायु-विष्णु पुराणानि ख्यातान्पटादशात्र हि ।।5।। 18-उपपुराणानि सनत्कुमारं ब्रह्माण्डं कापिलं कल्कि वामनम्। माहेश्वरं नारसिंह सौर साम्बं च नारदम् ।।6।। पाराशरं वारुणं च मारीचं स्कान्द-भार्गवम्। शिवधर्म चौंशनसम् आश्चर्यमपि विश्रुतुम् ।।7।। एतान्युपपुराणानि ख्यातान्यष्टादशैव हि ।।8।। स्मृतिकर्तारः मनुर्दक्षो याज्ञवल्क्यो संवर्तव्यास-हारिताः । यमो मरीचिलौंगाक्षिः विश्वामित्रोङ्गिरास्तथा।।८।।
ऋष्यशृंगश्च पौलस्त्यः प्रचेताश्च प्रजापतिः । काजिनिींदश्च पितामहपराशरौ ।।10।। कात्यायनो गौतमश्चोशनाः पैठीनसिस्तथा। वृद्धकात्यायनश्चापि दक्षलदेवलनारदाः ।।11।। शातातपो वसिष्ठ श्च तथापस्तम्बगौतमौ। देवलः शंख-लिखितौ भरद्वाजश्च शौनकः ।।१२।। मनुस्मृति-टीकाकाराः कल्लूकभट्ट-नन्दन-मेधातिथि-विश्वरूप-भारुचयः । रूचिदत्त-सोमदेव-श्रीधर-धरणीधराश्च विख्याताः ।।13।। गोविन्दराजमाधव-नारायण-रामचन्द्रसहितो:ऽसौ। श्रीराघवानन्द इति मनुस्मृतेर्भाष्यलेखकाः प्रथिताः ।।14।। विश्वरूपःशूलपाणिः विज्ञानेश्वरपण्डितः। अपरार्कस्तथा याज्ञवल्क्यस्मृति-विवेचकाः ।।15।। याज्ञवल्क्यस्मृतेष्टीकाः बालक्रीडा मिताक्षरा । धर्मशास्त्रनिबन्धश्च सा दीपकलिका तथा ।।16।। विज्ञानेश्वररचिता मिताक्षरा सा हि दीपकलिका च। श्रीशूलपाणिरचिता, बालक्रीडा च विश्वरूपेण ।।17।। रचितो धर्म(शास्त्र) निबन्धस्तथापरार्केण याज्ञवल्कीयः । श्रीयाज्ञवल्क्यरचितस्मृतेरिमा विश्रुताष्टीकाः ।।18।। कृतानि चासहायेन-नारदस्य मनोस्तथा। गौतमस्य स्मृतीनां च भाष्याणि प्रथितानि हि ।।19 ।। कात्यायन-पारस्कर गौतमसूत्राणि भर्तृयज्ञेन । व्याख्यातानि तथैव च भारुचिणा धर्मसूत्राणि ।।20।। चक्रे कालविवेकं तद्वद् व्यवहारमातृकं चापि । प्रथितं च दायभागं योऽसौ जीमूतवाहनः ख्यातः ।।21 ।। व्यवहारतिलककर्ता कर्मानुष्ठानपद्धतिं चापि । प्रायश्चित्तनिरूपणमपि चक्रे भट्टभवदेवः ।।22 ।। कृता गोविन्दराजेन टीका सा स्मृतिमंजरी। स्मृत्यर्थसारः सम्प्रोक्तः श्रीधरेणं सुधीमता। लक्ष्मीधरेण रचितो ग्रन्थः कल्पतरुस्तथा ।।23 ।। देवस्वामी भोजदेवो बालरूपो जितेन्द्रियः । श्रीकरो बालकश्चापि शूलपाणिर्हलायुधः । रघुनन्दनोऽपरार्कश्च धर्मशास्त्रप्रबोधकाः ।।24।। अनिरूद्धकृता कर्मोपदेशिनी पद्धतिश्च हारलता। पारस्करसूत्राणां टीका श्रीहरिहरेणोक्ता ।।25।। आचारसागरो दानसागरोऽदूभुतसागरः । बल्लालसेनरचितः प्रतिष्ठासागरस्तथा ।।26 ।। देवन्नभट्टरचिता विख्याता स्मृतिचन्द्रिका । आश्वलायनसूत्राणां टीका प्रोक्ता ह्यनविला ।।27।। उज्ज्वला धर्मसूत्राणां धर्मसूत्रेवनाकुला तथा गौतमसूत्रणां टीका ख्याता मिताक्षरा ।।28।। आपस्तम्बो मंत्रपाठः हरदत्तेन निर्मितः । हेमाद्रिणा चतुर्वर्गचिन्तामणिरसौ कृतः ।।29।।
526/ संस्कृत वाङ्मय कोश - ग्रंथ खण्ड
For Private and Personal Use Only