________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
बुड्डौन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि । वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि
सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात् विविधं करणं हारि द्वाराणि शेषाणि ॥३५॥ एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्न पुरुषस्थार्थ प्रकाश्य बुड्ढी प्रयच्छन्ति ॥३६॥
बुद्धीन्द्रियाणि तानि सविशेषं विषयं गृह्णन्ति सविशेषविषयं मानुषाणां शब्दस्पर्शरूपरसगन्धान सुखदुःखमोहवि. षययुक्तान् बुद्धौन्द्रियाणि प्रकाशयन्ति देवानां निर्विशेषान् विषयान् प्रकाशयन्ति तथा कर्मेन्द्रियाणां मध्ये वाग्भवति शब्दविषया देवानां मानुषाणां च वाग्वदति श्लोकादीनुच्चारयति तस्माद्देवानां मानुषाणां च वागिन्द्रियं तुल्यं शेषाण्यपि वाग्व्यतिरिक्तानि पाणिपादपायूपस्थसंजितानि पञ्चविषयाणि पञ्च विषयाः शब्दादयो येषां तानि पञ्चविषयाणि शब्दस्पर्शरूपरसगन्धा पाणी सन्ति पञ्चशब्दादिलक्षणायां भुवि पादो विहरति पायिन्द्रियं पञ्चल,प्तमुत्सर्ग करोति तथोपस्थेन्द्रिय पञ्चलक्षणं शुक्रमानन्दयति ॥ ३४ ॥
सान्तःकरणा बुद्धिरहङ्कारमनःसहितेत्यर्थः यस्मात् सर्व विषयमवगाहते गृह्णाति विष्वपि कालेषु शब्दादीन् ग्टह्णाति तस्मात् त्रिविधं करणं हारि द्वाराणि शेषाणि शेषाणि करणानौति वाक्यशेषः। किञ्चान्यत् ॥ ३५ ॥
यानि करणान्युतानि एते गुणविशेषाः किं विशिष्टाः
For Private and Personal Use Only