________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका ।
२५.
1
अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवत ते सर्गः एकादशकश्च गणस्तन्मात्रः पञ्चकचैव ॥ २४ ॥ सात्विक एकादशकः प्रवर्त्तते वैद्यतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ २५ ॥
एकादशकश्च गण एकादशेन्द्रियाणि तथा तन्मात्रो गणः पञ्चकः पञ्चलक्षणोपेतः शब्दतन्मात्रस्पर्शतन्मात्ररूपतमात्ररमतन्मात्रगन्धतन्मात्रलक्षणोपेतः किंलचणात् सर्ग इत्य ेत
दाह ॥ २४ ॥
सत्वेनाभिभूते यदा रजस्तमसौ अहङ्कारे भवतस्तदा मोऽहङ्कारः सात्विकस्तस्य च पूर्वाचार्यैः संज्ञा कृता वैकृत इति । तस्माद्दिकृतादहङ्कारादेकादशक इन्द्रियगण उत्पद्यते । तस्मात् सात्विकानि विशुद्धानीन्द्रियाणि स्वविषयसमर्थानि तस्मादुच्यते सात्विक एकादशक इति । किञ्चान्यद भूतादेस्तन्मात्रः स तामसः तमसाभिभूते सत्वरजसी अहङ्कारे यदा भवतः सोऽहङ्कारस्तामस उच्यते तस्य पूर्वाचार्यकता संज्ञा भूतादिस्तस्माद् भूतादेरहङ्कारात्तन्मात्रः पञ्चको गण उत्पद्यते भूतानामादिभूतस्तमो बहुल स्तेनोक्तः स तामस इति । तस्माद् भूतादेः पञ्चतन्मात्रको गणः किञ्च तैजसादुभयं यदा रजसाभिभूते सत्वतमसौ भवतस्तदा तस्मात् सोऽहद्वारस्तेजस इति संज्ञां लभते तस्मात्तैजसादुभयमुत्पद्यते । उभयमिति एकादशो गणस्तन्मात्रः पञ्चकः । सोऽयं सात्विको Seङ्गा वैकृतिको विकृतो भूत्वा एकादशेन्द्रियाण्युत्पादयति स तैजसमहङ्कारं सहायं गृह्णाति सात्विको निःक्रियः स तैजसयुक्त इन्द्रियोत्पत्तौ समर्थः तथा तामसोऽहङ्कारो भूतादिः
३
For Private and Personal Use Only