________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माख्यकारिका।
सङ्घातपरार्थत्वात् विगुणादिविपर्यायादधिष्ठानात्। पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च ॥११॥
श्रयविशेष प्रतिनिधाय प्रतिप्रतिगुणाश्रयविशेषं परिणामात् प्रवत ते व्यक्तं यथा आकाशादेकरसं सलिलं पतितं नानारू. पात् संश्लेषाद्भिद्यते तद्रसान्तरैरेवमेकस्मात् प्रधानात् प्रवृत्तास्त्रयो लोका नैकखभावा भवन्ति देवेषु सत्वमुत्कटं रजस्तमसी उदासीने तेन तेऽत्यन्तसुखिनो मनुष्येषु रज उत्कटं भवति सत्वतमसो उदासीने तेन तेऽत्यन्तदुःखिनस्तियतु तम उत्कटं भवति सत्वरजसी उदासीने तेन तेऽत्यन्तमूढाः ॥ एवमार्यादयेन प्रधानस्यास्तित्वमयमुपगम्यते इतश्चोत्तरं पुरुषास्तित्वप्रतिपादनार्थमाह ॥ १६ ॥
यदुक्त व्यक्ताव्यक्तविज्ञानान्मोक्षः प्राप्यत इति तत्र व्यक्लादनन्तरमव्यक्त पञ्चभिः कारणैरधिगतमव्यक्तवत् पुरुषोऽपि सूक्ष्मस्तस्याधुनानुमितास्तित्वं प्रतिक्रियते। अस्ति पुरुषः कस्मात् सङ्घातपरार्थत्वात्। योऽयं महदादिसङ्घातः स पुरुषार्थ इत्यनुमीयते अचेतनत्वात् पर्यवत्। यथा पर्यः प्रत्येकं गानोत्पलकपादवटतूलीप्रच्छादनपटोपधानसङ्घातः परार्थो नहि स्वार्थः पय॑शस्य नहि किञ्चिदपि गानोत्पलाद्यवयवानां परस्परं कृत्यमस्ति। अतोऽवगम्यतेऽस्ति पुरुषो यः पर्यङ्क शेते यस्यायें पर्यस्तत्परार्थमिदं शरीरं पञ्चानां महाभूतानां सङ्घातो वर्त्ततेऽस्ति पुरुषो यस्येदं भोग्यशरीरं भोग्यं महदादिसङ्घातरूपं समुत्पमिति। इतश्चात्माऽस्ति त्रिगुणादिविपर्य यात्। यदुक्त पूर्वस्यामार्यायां त्रिगुणमविबेकिविषय इत्यादि। तस्मादिययाय नोक्त तहिपरीत
For Private and Personal Use Only