________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
प्रौत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः। व्यक्तमेकमव्यक्तं तथा पुमानप्येकः। आश्रितं व्यक्तमनाश्रितमव्यक्तं तथा च पुमानमाश्रितः। लिङ्गं व्यक्तमलिङ्गं प्रधानं तथा च पुमानप्यलिङ्गः। न कचिल्लीयत इति । सावयवं व्यक्त निरवयवमव्यक्तं तथा च पुमान् निरवयवः। नहि पुरुषे शब्दादयोऽवयवाः सन्ति । किञ्च परतन्त्र व्यक्त स्वतन्त्रमव्यक्त तथा च पुमानपि स्वतन्त्रः। आत्मनः प्रभवतीत्यर्थः । एवमेतदव्यक्तपुरुषयोः साधर्म्य व्याख्यातं पूर्वस्यामा-याम् । व्यक्तप्रधानयोः साधयं पुरुषस्य वैधम्यं च त्रिगुणमविवेकी. त्यादि प्रकृत्या-यां व्याख्यातम् । तत्र यदुक्त त्रिगुणमिति व्यक्तमव्यक्त च तत् के ते गुणा इति तत्वरूपप्रतिपादनायेदमाह ॥ ११ ॥
प्रोत्यात्म का अप्रोत्यात्मका विषादात्मकाश्च गुणाः सत्वरजस्तमांसोत्यर्थः । तत्र प्रोत्यात्मक सत्वं प्रौतिः सुखं तदात्मकमिति। अप्रोत्यात्मकं रजः। विषादात्मकं तमः । विषादो मोहः। तथा प्रकाशप्रवृत्तिनियमार्थाः। अर्थशब्दः सामर्थ्यवाची प्रकाशार्थं सत्व प्रकाशसमर्थमित्यर्थः । प्रवृत्त्यर्थं रजोनियमार्थ तमः स्थितौ समर्थमित्यर्थः प्रकाशक्रियास्थितिशीला गुणा इति। तथाऽन्योऽन्याभिभवाश्रयजननमिथुनहत्तयश्च । अन्योऽन्याभिभवा: अन्योऽन्याश्रयाः अन्योऽन्यजननाः अन्योऽन्यमिथुनाः अन्योऽन्यवृत्तयश्च ते तथोक्ताः। अन्योऽन्या. भिभवा इति अन्योऽन्य परस्परमभिभवन्तीति प्रोत्यप्रीत्यादिभिर्धर्मेराविर्भवन्ति यथा यदा सत्वमुत्कटं भवति तदा रजस्तमसी अभिभूय स्वगुणैः प्रौतिप्रकाशात्मकेनावतिष्ठते यदा रजस्तदा सत्वतमसौ अप्रीतिप्रत्तिधर्मेण
For Private and Personal Use Only