________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि अथोऽव्यक्त व्याख्यामः। विपरीतमव्यक्तम् । एतैरेव गुणैर्यथो. नविपरौतमव्यक्तं हेतुमद व्यक्तमुक्ताम् । नहि प्रधानात् परं किश्चिदस्ति यत: प्रधानस्यानुत्पत्तिः तस्मादहेतुमदव्यक्तम् । तथानित्यं च व्यक्तं नित्यमव्यक्तमनुत्पाद्यत्वात् नहि भूतानि कुतश्चिदुत्पद्य न्त इति प्रधानम् ॥ किं चाव्यापि व्यक्तं व्यापि प्रधानं सर्वगतत्वात् ॥ सक्रियं व्यक्तमक्रियमव्यक्त सर्वगत. वादेव ॥ तथाऽनेक व्यक्तमेकं प्रधानं कारणत्वात् त्रयाणां लोकानां प्रधानमेकं कारणं तस्मादेकं प्रधानम् ॥ तथाश्रित व्यक्तमनाश्रितमव्यक्तमकाव्यं त्वाबहि प्रधानात् किञ्चिदस्ति परं यस्य प्रधान कार्य स्यात् ॥ तथा व्यक्त लिङ्गमलिङ्गमव्यक्त. नित्यत्वानाहदादि लिङ्गं प्रलयकाले परस्परं प्रलोयते नै प्रधानं तस्मादलिङ्गं प्रधानम् ॥ तथा सावयवं व्यक्त निरवयवमव्यक्त नहि शब्दस्पर्शरसरूपगन्धाः प्रधाने सन्ति ॥ तथा परतन्त्रं व्यक्त स्वतन्त्रमव्यक्तं प्रभवत्यात्मनः ॥ एवं व्यक्ताव्यतायोर्वेधर्म्यमुक्तं साधर्म्यमुच्यते यदुक्त सरूपं च ॥ १० ॥
त्रिगुणं व्यक्तं सत्वरजस्तमांसि त्रयो गुणा यस्येति । अविवेकि व्यक्तं न विवेकोऽस्यास्तौति । इदं व्यवमिमे गुणा इति न विवेककत्तुं याति अयं गौरयमख इति यथा ये गुणास्तद्, व्यक्तं यदव्य ते च गुणा इति। तथा विषयो व्यक्त भोज्यमित्यर्थः सर्वपुरुषाणां विषयभूतत्वात्। तथा सामान्य व्यक्त मूल्यदासीवत् सर्वसाधारणत्वात् ॥ अचेतनं व्यक्त सुखदुःखमोहान्न चेतयतीत्यर्थः । तथा प्रसवधर्मि व्यक्त तद् यथा बुद्धेरहङ्कारः प्रसूयते तस्मात् पञ्चतन्मात्राणि एकादशेन्द्रियाणि च प्रसूयन्ते तन्मात्रेभ्यः पञ्चमहाभूतानि ॥ एवमेत व्यक्तधर्माः
For Private and Personal Use Only