SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ सांख्यदर्शनम्। गावस्थातो विशेषः पुरुषस्येति सिद्धान्तदलार्थः । शेषं व्याख्यातप्रायम् ॥ २६ ॥ ननु निःसने कथमुपरागस्त त्राह। निःसङ्गेऽप्यपरागोऽविवेकात् ॥ २७॥ निःसङ्गे यद्यपि पारमार्थिक उपरागो नास्ति तथाप्यु पराग इव भवतीति कृत्वा प्रतिविम्ब एवोपराग इति व्यवजियते उपरागविवेकिभिरित्यर्थः ॥ २७ ॥ एतदेव विवृणोति । जवास्फटिकयोरिव नोपरागः किन्त्वभिमानः ॥ २८॥ यथा जवास्फटिकयो!पराग: किन्तु जवाप्रतिविम्बवशादुपरागाभिमानमात्र रक्तः स्फटिक इति तथैव बुद्धिपुरुषयो!पराग: । किन्तु बुद्धिप्रतिविम्बवशादुपरागाभिमानोऽविवे. कवशादित्यर्थः। अत उपरागतुल्य तया वृत्तिप्रतिविम्ब एव पुरुषोपराग इति सूत्रहयपर्यवसितोऽर्थः । स एव च दुःखामकवृत्तेरुपरागो दुःखनियाख्यमोक्षस्यान्तराय स्तस्य च ध्वंसश्चित्तलयात् सोऽपि च चित्तत्तिनिरोधाख्य नासम्प्रज्ञातयोगेने त्यतो योगादेवान्तरायध्वंसो भवतीति योगशास्त्रस्यापि सिद्धान्तः ॥ २८॥ ध्यानं निर्विषयं मन इति योग उक्तस्तस्य साधनान्याचा क्षाण एव यथोतोपरागस्य निरोधोपायमाह । ध्यानधारणाभ्यासवैराग्यादिभिस्तन्निरोध: समाधिहारा ध्यानं योगस्य कारणं ध्यानस्य च कारणं For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy