________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थोऽध्यायः ।
१७३
अध्यस्तरूपोपासनात् पारम्पर्येण यज्ञोपा
सकानामिव ॥ २१ ॥
सिद्धिरित्यनुषज्यते । श्रध्यस्तरूपैः पुरुषाणां ब्रह्मविष्णुहरादीनामुपासनात् पारम्पर्येण ब्रह्मादिलोकप्रातिक्रमेण मत्त्वशुद्धिद्वारा वा ज्ञाननिष्पत्तिर्न साक्षात् । यथा याचिकानामित्यर्थः ॥ २१ ॥
ब्रह्मादिलोकपरम्परयापि ज्ञाननिष्पत्तौ नास्ति नियम
इत्याह ।
इतरलाभेऽप्यावृत्तिः पञ्चाग्नियोगतो जन्म
श्रुतेः ॥ २२ ॥
निर्गुणात्मन इतरस्याध्यस्तरूपस्य ब्रह्मलोकपय्र्यन्तस्य लाभऽप्यवृत्तिरस्ति कुतो देवयानपथेन ब्रह्मलोकं गतस्यापि धूपजन्यधरामरयोषिद्रूपाग्निपञ्चके पञ्चाहुतितो जन्मश्रवणात् । छान्दोग्य पञ्चमप्रपाठके । असौ वावलोको गौतमाग्निरित्यादिनेत्यर्थः । यच्च ब्रह्मलोकादनावृत्तिवाक्यं तत् तत्रैव प्रायेणोत्पन्नज्ञानपुरुषविषयकमिति ॥ २२ ॥
ज्ञाननिष्पत्ति विरक्तस्यैवेत्यत्र निदर्शनमाह 1 विरक्तस्य हेयहानमुपादेयोपादनं हंसतीरवत् ॥ २३ ॥
विरक्तस्यैव देयानां प्रकृत्यादीनां हानसुपादेयस्य चात्मन उपादानं भवति । यथा दुग्धजलयोरेकीभावापत्रयोर्मध्येऽसारजलत्यागेन सारभूतचौरोपादानं हंसस्यैव न तु काकादेरित्यर्थः ॥ २३ ॥ सिद्धपुरुषसङ्गादप्येतदुभयं भवतीत्याह ।
For Private And Personal Use Only