________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भूमिका ।
बाधाभावात् । एतेन श्रुतिस्मृति प्रसिद्धयोर्नानात्मैकात्मत्वयोव्यवहारिकपारमार्थिकभेदेनाविरोध इति ब्रह्ममीमांसायां प्रपञ्चितमस्माभिरिति दिक् । नन्वेवमपि तत्त्वत्समासाख्यसूत्रे : महास्याः षड़ध्याय्याः पौनरुक्त्यमिति चेत् । मैवम् । संक्षेपविस्तररूपेणोभयोरप्यपौनरुक्त्यात् । अत एवास्याः षड़ध्याय्या योगदर्शनस्येव सांख्यप्रवचनसंज्ञा युक्ता । तत्त्वसमासाख्यं हि यत् सङ्क्षिप्त सांख्यदर्शनं तस्यैव प्रकर्षेणास्यां निर्वचनमिति । विशेषस्त्वयं यत् षड़ध्याय्यां तत्त्वसमासाख्योक्तार्थविस्तरमाव योगदर्शने त्वाभ्यामभ्युपगमवादप्रतिषिद्धस्यैवेश्वरस्य निरूपणेन न्यूनतापरिहारोऽपीति । अस्य च सांख्यसंज्ञा सान्वया । संख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते । तत्त्वानि च चतुर्विंशत् तेन सांख्याः प्रकीर्त्तिताः ॥ इत्यादिभ्यो भारतादिवाकयेभ्यः । संख्या सम्यग्विवेकेनात्मकथनमित्यर्थः । श्रतः सांख्यशब्दस्य योगरूढ़तया तत्कारणं सांख्ययोगाधिगम्यमित्यादिश्रुतिषु ।
एषा तेऽभिहिता सांख्य बुद्धिर्योगे त्विमां शृणु । इत्यादिस्मृतिषु च । सांख्यशब्देन सांख्यशास्त्रमेव ग्राह्यम् । न पुनरर्थान्तरं कल्पनीयमिति । तदिदं मोक्षशास्त्र चिकित्साशास्त्रवच्चतुर्व्यूहम् । यथा हि रोग आरोग्यं रोगनिदानं भैषज्यमिति चत्वारो व्यूहाः समूहाचिकित्साशास्त्रस्य प्रतिपाद्यास्तथैव हेयं हानं हेयहेतुर्हानोपायचेति चत्वारो व्यहा मोक्षशास्त्रस्य प्रतिपाद्या भवन्ति । मुमुक्षुभिर्जिनासितत्वात् । तत्र त्रिविधं दुःखं हेयम् । तदत्यन्तनिवृत्तिहीनम् । प्रकृतिपुरुषसंयोगद्दारा चाविवेको हेयहेतुः । विवेकख्यातिस्तु हानोपाय इति । व्यहशब्देन चैषामुपकरणमंग्रहः । तत्र चादी फलत्वेनाभ्यर्हितं हानं तत्प्रतियोगिविधयैव च हेयं
For Private And Personal Use Only