________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्योगः, अञ्जनादि चूर्ण, योगचूर्णकृताः-मस्तकादिषु योगचूर्णप्रक्षेपेण वशीकृताः ?, किं देवोपहता:-देवेन-प्रतिकूलदेवेन किमुपहताः १, किमङ्ग ठकिता:-' अङ्गे 'ति कोमलामन्त्रणे किं किता:-धूर्तेण च वञ्चिताः । किं वा ग्रहावेशिताः १, ग्रहैः-व्यन्तरा. दिभिः आवेशिताः-अधिष्ठिताः १ । एते तत्वं न जानन्तीति दृष्टान्तः। यतः-यस्मात् अमी जडाः कुपथात्-कुमार्गाद् व्यावृत्ति-निवृत्तिं न दधते-न कुर्वन्ति । किं कृत्वा ? श्रुतस्य-सिद्धान्तस्य मूनि-मस्तके पदं-पादं कृत्वा-सिद्धान्तोक्तमविगणय्येत्यर्थः । कथम्भूता जडाः १ दृष्टोरुदोषा अपि, दृष्टा उरवः-गरिष्ठा दोषा यैस्ते, प्रत्यक्षतो दोषान् पश्यमानाः कुमार्गनिति न कुर्वन्ति अत एव दिङ्मोहादिविशेषणम् । च-पुनः एतत्कृते-कुपथव्यावृत्तिकृते पुरुषा ये असूयन्ति-ईष्यों कुर्वन्ति, स्वयं कुपथव्यावृति न कुर्वन्ति, ये कुर्वन्ति तेभ्यो जडा असूयन्तीति विशेषणसफलता ॥ १७ ॥
श्रुतपथावज्ञाद्वारमाह
इष्टावाप्तितुष्टनटविटभटचेटकपेटकाकुलं,
निधुवनविधिनिबद्धदोहदनरनारीनिकरसङ्कुलम् । रागद्वेषमत्सरेयो घनमघपके निमज्जनं,
जनयत्येव मूढजनविहितमविधिना जैनमजनम् ॥ १८ ॥
व्याख्या-इष्ठावाप्तिः ॥ अविधिना-अविधिप्रकारेण रात्री इत्यर्थः, मूढजनविहितं-मूर्खलोककृतं जैनमज्जन-तीर्थकरस्नात्रम् अघपके निमञ्जनं-पापपके ब्रुडनं जनयत्येव-करोत्येव । एवकारो निश्चयार्थे । किम्भूतं रात्रिस्नानम् ? इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलम्-इष्टा-वल्लभा स्त्री रात्रावागता तस्या अवाप्तिः-प्राप्तिस्तया तुष्टाः-सन्तुष्टा ये विटा:-वेश्यापतयः, नटा:-नाटकिनः, भटा:-सुभटाः, चेटका:दासास्तेषां पेटक-समुदायस्तेन आकुलम् , रात्रौ प्रायस्ते समागच्छन्ति । पुनः किम्भूतं ? निधुवनविधि निधुवनं-मैथुनं तस्य विधिः-विलसितं, तत्र निबद्ध-कृतो दोहद:-अभिलापो येन तत् । एवंविधं नरनारीनिकर-मनुष्यस्त्रीवृन्दं तेन सङ्कुलं-व्याप्तम् । पुनः किम्भूतं ? रागद्वेषमत्सरेणूंघनं, रागः-स्नेहा,-द्वेष:-क्रोधः, मत्सर:-क्रोधविशेषः, परगुण्णाऽसहिष्णुता-ईर्ष्या-स्ववल्लभां परेण जल्पन्तीं दृष्ट्वा क्रोधकरण, तैपनं-निविडं बहुरुयादिविटादिसंमर्दाद् रात्रौ निषिद्धं भगवत्स्नात्रं बह्वसमञ्जसप्रवृत्तित्वाच्च ॥ १८ ।।
For Private And Personal Use Only