________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनतिक्रामद्भिर्मूढत्वादविमृश्यत्वात् अविमृश्यकारिभिरित्यर्थः । 'एकीभ्य' दुष्टत्वेनैक मत्यं विधाय, इत्थं सकलजनप्रतीतैराक्रोश-तर्जन-हीलादिभिः प्रकार राजवर्ष सेन वयं 'कदामहे ' पीडयामहे-उपहास्यामह इत्यर्थः । केन हेतुनेत्याह-' सदागमस्य' लिङ्गिप्रथित-मिथ्यापथोत्पथत्वप्रतिपादकस्य शुद्धसिद्धान्तस्य 'कथयाऽपि' धर्मदेशनाद्वारा विचारमात्रेणापि, यदि हि पक्षप्रतिपक्षपरिग्रहेण साधनदूषणोपन्यासै प्रकृतविषयपरैः सह वादमुपक्रमामहे तदा न विद्मस्ते किमपि कुर्वीरन् इत्यपि शब्दार्थः, तथा च वयं शुद्धसिद्धान्तविचारं भव्येभ्योऽनुजिघृक्षयोपदिशन्तो नाल्पीयां समप्युपालम्भमर्हामः । यदुक्तं-" नेत्र निरीक्ष्य विषकंटकसर्पकीटान् , सम्यक् पथा व्रजत तान् परिहत्य सर्वान् कुज्ञान-कुश्रुति-कुदृष्टि-कुमार्गदोषान् , सम्यग्विचारयत कोऽत्र परापवादः १ ॥१॥" इति वृत्तार्थः ॥ ४०॥
[अथ ग्रन्थकृत्प्रशस्तिः] श्रीमति खरतरगच्छे, श्रीजिनभद्राभिधा गणाधीशाः । सिद्धान्तरुचिप्रौढा-नूचानाः सन्ति तच्छिष्या: ॥१॥ श्रीमदभयसोमास्तू-पाध्यायास्तद्विनेयविख्याताः। तच्छिष्यहर्षराजो-पाध्यायेन हि कृता वृत्तिः ॥२॥ लब्धिवाग्गुरुभद्रो-दयसाहाय्याच सङ्घपदृस्य । श्रीमजिनपतिसूरीश्वर-कृतसद् बृहत् टीकातः ॥३॥ त्रिभिः कुलकम् ॥ यदत्र हर्षराजेन, लिखितं मतिमान्यतः । विरुद्धं च तदुत्सूत्रं बुधैः शोध्यं सुबुद्धिभिः ।। ४ ।। ॥ इति सङ्घपट्टकलघुवृत्तिः सम्पूर्णा ॥
[लेखक प्रशस्तिः ] संवत् १६०८ वर्षे माहसुदि ५ दिने शनिवारे श्रीखरतरगच्छे श्रीजिनमाणिक्यपरिविजयराज्ये श्रीविक्रमनगरे गणधर चोपडागोत्रे सा० देवराजस्तत्पुत्र सा० जगसिंहस्तत्पु० सा कम्मा भा० श्रा० कौतिकदेवाः पुरत्न सा० रायपाल सुरताण संसारचंद प्रमुखपरिवारयुतेन सा० रायपालेन ज्ञानपश्चमीतपस उद्यापने श्रीसङ्घपट्टकलघुवृत्तिप्रतिविहरापिता श्रीधनराजोपाध्यायानां वाच्यमानं चिरं तन्दतु ॥ शुभं कल्याणमस्तु । श्रीधनराजोपाध्यायमित्रैः प्रसादीकृता प्रतिरियं वा० जयसुन्दरगणेः ।
शुभं भवतु लेखक पाठकयोः । कल्याणमस्तु । श्रीः ।
For Private And Personal Use Only