________________
Shri Mahavir Jain Aradhana Kendra
१०
तद्यथा
www.kobatirth.org
श्रीवल्लभ गरिण विनिर्मितम्
1
Acharya Shri Kailassagarsuri Gyanmandir
श्रहम्मदावादपुरं पुराणं, वसुन्धराधारनराभिरामम् । चकास्ति शास्तोव तदुत्तमान्यद् द्रंगाणि सर्वस्वसमृद्धिभिर्यत् ॥ ६ ॥ तत्रोत्तमः सर्वसमृद्धपुंसां, श्रीदेवराजो व्यवहारिराजः । रराज साम्राज्यविराजमानः, स्वर्देवराजो मघवेव साक्षात् ॥७ ॥ ॥ लोकोत्तमं सर्वगुणाभिरामं, सौभाग्यवन्तं च समृद्धिमन्तम् 1 श्रीदेवराजं जितदेवराज, लोका हि लोके लुलुके नृलोकः ||८||
10
व्या० - हि निश्चितं नृलोको मनुष्यपरीक्षको लोक:-जनो लोके जगति श्रीदेवराजं - श्री देवराजश्रेष्ठिनं जितदेवराजं - पराजितेन्द्र लुलुके- ददर्श ॥ ८ ॥
७ ८ ४
सप्ताऽष्ट वेदकमिताब्दमाघ- वलक्षपक्षोत्तमपञ्चमाऽहे । स्वकारितमुनिसुव्रतार्ह द्विम्बं कृतानन्तसमीहितार्थम् ||६|| प्रव्यय्य स द्रव्यचयं महीयो, महोत्सवौघेन जनाऽनघेन । हर्षात् प्रतिष्ठापयति स्म हस्ताज्जाग्रत्प्रभावाज्जिनभद्रसूरेः ॥ १० ॥
युग्मम्
व्या०
० - सप्ताष्ट वेदैकमितो १४८७ यो शब्द :- वर्षस्तस्य यो माघः - माघमासस्तस्य यो वलक्षपक्ष :- श्वेतपक्षस्तस्य यत् पञ्चमाहः पञ्चम दिनं पञ्चमीतिथिरित्यर्थस्तस्मिन् । पञ्चमा इत्यत्र पञ्चमं च तत् ग्रहश्च पञ्चमाः 'अह्नः' इति सूत्रेण तत्पुरुष ऽद् समासान्तः ॥
यस्याः
शुशौड शोडीरसुदानशौण्डो, योषिज्जनो नो मनसा मनोज्ञः । सदौदार्यगभीरतादीन् गुणान गण्यानधिकारोिक्ष्य ॥ ११ ॥ युयौs रूडीत्यभिधा प्रिया सा, तस्य प्रचण्डस्य जनाजडस्य | रूडीति भाषा तत एव लोके, प्रावर्त्तते वेत्ति जना उदाहुः || १२|| युग्मम्
व्या०- - तस्य देवराजस्य रूडीत्यभिधा प्रिया प्रेयसी युयोड-सम्बबन्ध ग्रमिलदित्यर्थः। ‘यौडु सम्बन्धे, सम्बन्धः श्लेष :' इति धातुपारायणम् । सा का ? यस्याः सौदार्य गभीरतादीन् गुणान् निरीक्ष्य योषिज्जनः मनसा नो शुशोड-न जगवें
For Private And Personal Use Only