________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यामष्टमकथा।
कृत्वा ते सर्वे मोक्षं गताः । केचन स्वर्ग गताः । केचन सर्वार्थसिद्धिं गताः । इतीदं कथानकं गौतमस्वामिना राजानं श्रेणिकं प्रति कथितं । श्रुत्वा सर्वेषां दृढतरं सम्यक्त्वं जातम् ।
इमा सम्यक्त्वकौमुदीकथां श्रुत्वा भो भव्याः दृढतरं सम्यक्त्वं धार्यताम् । तेन भवभ्रमणविच्छित्तिर्भवति । तथा चोक्तम्
" धर्मेण गमनमूर्ध्व गमनमधस्ताद् भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ धर्मोयं धनवल्लभेषु धनदः कामार्थिनां कामदः
सौभाग्यार्थिषु तत्मदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नाना विकल्पैर्नृणां
किं किं यन्नऽददाति किन्तु तनुते स्वर्गापवर्गावपि ॥ इति श्रीसम्यक्त्वकौमुदी-कथा समाप्ता।
-
For Private And Personal Use Only