SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां movie पुनः . आज भान योजना की " बाला खेलनकाले दत्तैर्दिव्यफलाशनैः। मोदते यौवनस्था तु वस्त्रालंकरणादिभिः ।। हृष्यन्मध्यवयाः प्रौढरतिक्रीडासकौशलैः। वृद्धा तु मधुरालापैगौरवेणातिराजते॥" तस्या मनस्येवं प्रतिभासते मम भर्ताभवत्विति चिन्त्यमानाऽहर्निशमनुरक्ता जाता। तथा च " नानिस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥" दिनावध्यनन्तरं समुद्रदत्तेनोक्तं-हे प्रिये, तव प्रसादनाहमतीव सुखी जातः । सेवा मर्यादा च जाता । अहं निनदेशं ब्रजामि । अतो नियमेनोक्तं सूक्तमसूक्तं वा तत् सर्व सहनीयं त्वया । इति वचनं श्रुत्वा गद्गदवचना सा ब्रवीति-हे नाथ, त्वया विना कथं जीवामि । अत एव नियमेन त्वया सार्द्धमागच्छामि । तेनोक्तं-त्वमीश्वरपुत्री सुकुमाराऽहं पथिको महादरिद्रो मम निर्धनकस्य समीपे कुतः सुखं यत् सुखं तवात्रास्ति तत् सुखं बहिर्नास्ति । अत एव मया सह तवागमनमनुचितं निर्धनस्य कष्टं दारैरपि त्यज्यते । तयोक्तं-किं बहुनोक्तेन क्षणमपि त्वया विना न जीवामि । बहुधा निवारितापि न तिष्ठामि । तेनोक्तं-तयागच्छ यत्त्वयोपार्जितं तद् भविष्यति । तथा च " भवितव्यं प्रभवत्येव नालिकेरफलाम्बुवत् । गन्तव्यं प्रगच्छत्येव गजभुक्तकपित्थवत् ॥" For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy