________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयकथा |
ते सर्वेपि पुण्यदेव्या स्तम्भिताः । एतद्वृत्तान्तं जिनालयप्रस्थिताभ्यां दम्पतीम्यां श्रुत्वा भणितम् - उपार्जितं न केनापि लघयितुं शक्यते । तथा चोक्तम्
" यस्मिन्देशे यदा काले यन्मुहूर्ते च यद्दिने । हानिवृद्धियशोलाभस्तथा भवति नान्यथा ॥ "
LL
एवं परस्परं संबोध्य यावदुपसर्गे गच्छति तावत्संन्यासं गृहीत्वा जिनालये स्थितौ । एतस्मिन् स योगी नगरदेवतया प्रेर्यमाणो नगरमध्ये वदति - अहो जनाः, जिनदत्ता निरपराधिनी । बन्धुश्रिय आदेशेन मम वेतालीविद्यया सा कनकश्रीर्मारितेति । एकस्मिन् प्रदेशे सापि वेतालीविद्या नगरदेवतया संताड्यमाना सती वृद्धरूपधारिणी नगरमध्ये एवं वदति - अहो, जिनदत्ता निर्दोषा । कनकश्रीरियं पापिष्ठा मया मारितेति । एतत् सर्वं श्रुत्वा जनैर्भणित- महो, जिनदत्तेयं साध्वी निर्दुष्टा । एतस्मिन् प्रस्तावे देवैः पंचाश्चर्य कृतं नगरमध्ये | एतत् सर्वे दृष्ट्वा राज्ञा भणितं - बन्धुश्रीर्दुष्टा खरोपरि चटाप्य निर्घाटनीया । तयोक्तं - देव, अज्ञानतस्तथा कृतं मया । मम प्रायश्चित्तं दापयितव्यम् । राज्ञेोक्तमस्य दोषस्य प्रायश्चित्तं न कुत्रापि श्रुतमस्ति ।
तथा चोक्तम्
४७
nage : कृतघ्नस्य स्त्रीनस्य पिशुनस्य च । चतुर्णां वयमेतेषां निष्कृतिं नैव शुश्रुमः ॥”
ततो निर्घाटिता सा । तयोक्तमहो, उत्कृष्टपुण्यपापयोः फलमत्रैव
झटिति दृश्यते ।
For Private And Personal Use Only