________________
Shri Mahathin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaaret Fyanmandir
कस्यापिश्रियंहरेत् । एवंकृताक्षमालायांज्येष्ठेनावर्तयेत्क्रमात् । भुक्तिमुक्तिप्रदःसोयंमालिकागणनक्रमः । अंगुष्ठेनाक्षमालांचचालयेन्मध्य माग्रतः । तर्जन्यानस्पृशेत्सोयंमुक्तिदोगणनक्रमः । अंगुष्ठमध्यमाभ्यांतुजपेदुत्तमकर्मणि । अंगुष्ठानामिकाभ्यांतुजपेदाकृष्टकर्मणि । तर्जन्यं गुष्ठयोगात्तुद्विषदुच्चाटनेजपः । कनिष्ठांगुष्ठकाभ्यांतुजपेन्मारणकर्मणि। जपान्यकालेतांमालांपूजयित्वातुगोपयेत् । जीर्णेसूत्रेपुनःसूत्रग्रंथयित्वाशतं जपेत् । प्रमादात्पतितेहस्ताच्छतमष्टोत्तरंजपेत् । जपेन्निषिद्धसंस्पर्शेक्षालयित्वायथोचितम् । अक्षसूत्रंतुनिपतेद्भूमौचेत्कुर्वतोजपम् । उद्धारं तस्यकुर्वीतजापकोहृदयेनतु । हृदयमघोरायनमइतिमंत्रः । योगयाज्ञवल्क्यः -अंगुष्ठस्यतुमध्यस्थंपरिवर्तसमाचरेत् । परिवर्तोभ्रमणम् । अंगुष्ठाग्रेणयजतंयजप्तमेरुलंधितम् । असंख्यातंतुयजप्तंतजप्तनिष्फलंभवेत् । स्मृतिरत्नावल्याम्-पर्वभिस्तुजपःकार्योनांगुलीनांनिपा तनैः। तन्निपातैस्तुयजप्तंसर्वविद्यात्तदासुरम् । अंगुलीनामंगुष्ठनिपातेंगुलिनिषेधोनेत्युक्तम् । मंत्रदेवप्रकाशिकायाम्-तत्रांगुलिजपं कुर्वन्सांगुष्ठांगुलिभिर्जपेत् । अंगुष्ठेनविनाकर्मकृतंतदफलंभवेत् । गौतमोपि-अंगुष्ठेनजपेजाप्यमन्यैरंगुलिभिःसह । अगस्त्यसं हितायाम्-मध्यमाद्यद्वयंपर्वजपकालेतुवर्जयेत् । एतमेरुविजानीयाहूषितंब्रह्मणापुरा । अस्मिन्पक्षेऽनामिकाद्वितीयपर्वप्रभृतिगणना तर्ज न्यादिपर्वणिसमाप्तिः। पर्वशब्दोरेखावचनइतिकेचित् । अस्मिन्पक्षेऽनामामध्यरेखामादिकृत्वातदधःक्रमणप्रादक्षिण्येनतर्जन्यादिरेखायां | समाप्तिः । विधानांतरंमंत्रदेवप्रकाशिकायाम्-अंगुलीपर्वभिमंत्रजपंनियंप्रकल्पयेत् । मध्यमानामिकामध्यपर्वद्वितयकल्पितम् ।। | मेरंप्रदक्षिणीकुर्वन्ननामामूलपर्वसु । आरभ्यमध्यमामूलंपर्वातंगणयेत्क्रमात् । अंगुलीनवियुंजीतकिंचिदाकुंचितेतले । अंगुलीनांवियोगेतु छिद्रेषुस्रवतेजपः। मालादेरनावश्यकतोक्तावृद्धपराशरेण-यथाकथंचिद्गणयेत्ससंख्यंतद्भवेद्यथा । चंद्रोदयेसंग्रह–प्रातःसंध्यांग भूतेनगायत्र्याजपितेनच । यथासंख्येनजाप्येनब्रह्मामेप्रीयतारविः । मध्याह्नेसायंचब्रह्मपदेक्रमाद्रुद्रविष्णुपदे प्रातःपदेमध्याह्नसायंपदेचोझे ।
292909200000000000000
For Private And Personal