________________
Shri Mantin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashpesyanmandir
ओंकारमुद्रासाप्रोक्तायतेश्वब्रह्मचारिणः ।चंद्रोदयेसंग्रहे-अंगुष्ठतर्जनीभ्यांतुऋग्वेदीसामगायनः। अंगुष्ठानामिकाभ्यांचग्राह्यंसर्वैरथर्वभिः।। व्यासः-अंगुष्ठेनपुटंधार्यनासायादक्षिणंपुनः । कनिष्ठानामिकाभ्यांतुवामंप्राणस्यसंग्रहे । मनुः-प्राणायामत्रयंकार्यसंध्यासुचतिसृष्व पि॥ ॥प्रणवखरमाहचंद्रोदयेवृद्धपराशरः-ऋग्वेदेखरितोदात्तउदात्तश्चयजुःश्रुतौ । सामवेदेसविज्ञेयोदीर्घःसप्लुतएवच । योग याज्ञवल्क्यः -आथर्वणेसमुद्दिष्टउदात्तोनात्रसंशयः। शांतिहेमाद्रौ-अनुदात्तोदात्तऋग्वेदेषण्मात्रःखरउच्यते । सर्वोदात्तोयजुःसा नांप्लुतातीतःप्लुतस्तथा । पूर्वास्तिस्रोनुदात्तास्तिस्रउदात्ताः । तत्रैवशौनकः-बाष्कलेनैकमात्रोयमोंकारःसमुदाहृतः । शाकलायनआचार्यों द्विमात्रमभिवांछति । साद्विमात्रंतंप्राहमुद्गलोमुनिपुंगवः । सार्वत्रिमात्रमोंकारंवसिष्ठोमुनिरब्रवीत् । पराशरश्चतुर्मा–पाहत्वध्यात्मतत्त्ववित् । मात्राश्चार्धचतस्रोऽस्यविज्ञेयाःपरमार्थतः । अथर्वणश्रुतौ यद्येकमात्रमभिध्यायीतेत्येकमात्रउक्तः ॥ ॥ ऋष्यादिस्मरणकार्यमित्युक्तंतत्रचं द्रोदयेव्यासः-प्रणवस्यऋषिब्रह्मागायत्रीछंदएवच । देवोऽनिःसर्वकर्मादौविनियोगःप्रकीर्तितः । देवोग्निरितिजपपरम् । ध्यानकालेपरब्रह्मज पकालेग्निरिष्यतइतियोगयाज्ञवल्क्योक्तेः॥ ॥ व्याहृतीनामृषीनाहभरद्वाज:-भरद्वाजःकश्यपश्चगौतमोऽत्रिस्तथैवच । वि श्वामित्रोजमदग्निर्वसिष्ठश्चर्षयःक्रमात् । चंद्रिकायाम्-विश्वामित्रोजमदग्निर्भरद्वाजोथगौतमः । ऋषिरत्रिर्वसिष्ठश्चकश्यपश्चयथाक्रमम् ।
आग्नेये-गायत्र्युष्णिगनुष्टुप्चबृहतीपंक्तिरेवच । त्रिष्टुप्चजगतीचेतिछंदांस्येतान्यनुक्रमात् । अग्निर्वायुस्तथासूर्योबृहस्पत्यपएवच । इंद्रश्च विश्वेदेवाश्चदेवताःसमुदाहृताः । सूर्यस्थाने आदित्यः अपांस्थानेवरुणःचंद्रिकायांपठितः । तत्रैव-व्याहृतीनांचसर्वासामूषिरुक्तःप्रजाप तिः। गायत्र्याऋष्याद्याहयोगयाज्ञवल्क्यः सवितादेवतायस्यामुखमग्निस्त्रिपास्थिता । विश्वामित्रऋषिश्छंदोगायत्रीसाविशिष्यते । १ ग्राह्यंनासायाइतिपाठः । २ परिकीर्तिताः ।
cene
For Private And Personal