________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarşuri Gyanmandir
ला हस्तेनतद्वाममनुवर्त्यप्रदक्षिणम् । तथैवाग्रेणचावेष्ट्यकुर्याद्वंथियथादृढाम् । वृत्तग्रंथिलक्षणंहेमाद्रौगारुडे–अर्धप्रदक्षिणीकृत्यशिखांपा
शंप्रवेशयेत् । वैष्णवेनैवमार्गेणवृत्तग्रंथोपवित्रके । वैष्णवोमार्गः पश्चाद्भागः । ब्रह्मग्रंथिरपितत्रैव-संत्यज्यवैष्णवंमार्गब्राह्ममार्गविमिश्रि तम् । सकृत्प्रदक्षिणीकृत्यब्रह्मग्रंथिःसउच्यते । कर्तुरभिमुखप्रदेशोब्रह्ममार्गः । क्षेमप्रकाशेशंखाप्रकारांतरमाह-त्रिगुणीकृतरज्जुस्तु | त्रिवृत्यासंनियोजयेत् । ब्रह्मग्रंथिःसविज्ञेयःसदामौंजादिषुद्विजैः । चंद्रोदयेव्यासः-करकंठेशिखायांचकर्णयोरुभयोरपि । पवित्रधारकोय |
श्चनसपापेनलिप्यते । कात्यायनः-सपवित्रःसदर्भोवाकाँगेपितृकर्मणि । अशून्यंतुकरंकृत्वासर्वत्राचमनंचरेत् । नोत्सृज्यंतत्पवित्रंतुभु शक्त्वोच्छिष्टतुवर्जयेत् । ब्राह्म-मंत्रंविनाधृतंयत्तत्पवित्रमफलंभवेत् । तस्मात्पवित्रेमंत्राभ्यांधारयेदभिमंत्र्यच । पवित्रंतेतुइत्यादिमंत्रद्वितयम | |स्यतु । प्रणवस्त्वस्यमंत्रःस्यात्समस्ताव्याहृतिस्तुवा । पृथ्वीचंद्रोदये-धृतंपवित्रंकर्मातेग्रंथिमुक्त्वातुतत्त्यजेत् । विस्मृत्ययदिपात्रेषुपवित्रवि | सृजेत्तथा। प्राजापत्यंचरेत्कृच्छ्रेतत्किल्बिषविशुद्धये । आश्वलायन:-तस्मिन्क्षीणेक्षिपेत्तोयेवह्नौवायज्ञसूत्रवत् । भूमिज्ञात्वातथाशुद्धांमृ द्विस्तारेणपूरयेत् । भरद्वाजः-कर्मातेपुनरादायपवित्रद्वितयंद्विजः । शुचौदेशेविनिक्षिप्यदध्यादेतत्पुनःपुनः । यद्युच्छिष्टाधुपहतंपवित्रवि हतंभवेत् । तदैवग्रंथिमुत्सृज्यत्यजेदितरथानहि । मदनपारिजातेकौशिकः-पवित्रस्यतुनाशौचमाचांतेतुकदाचन । पितॄणांतर्पणेत्या ज्यमुच्चारेपूजनेतथा । दर्भेषुतुहेमाद्रौस्कांदे-अनामिकाधृतादर्भाह्येकानामिकयापिवा । द्वाभ्यामनामिकाभ्यांतुधार्येदर्भपवित्रके । आ श्वलायन:-अथवानामिकाभ्यांतुग्रंथिहीनंकुशादिकम् । हेमादीन्वाथबिभृयात्सर्वकर्मखपिद्विजः । गौडास्तु-मध्यमानामिकाभ्यांतुधा
रयेद्विदलंकुशम् । संध्यादिकर्मजाप्येषुस्वाध्यायेपितृतर्पणे । केवलानामिकायांतुअज्ञानाद्धारयेत्कुशम् । श्वानमूत्रसमंतोयंपीत्वाचांद्रायणंचरे AL १ मनुनातु-मेखलामजिनंदंडमुपवीतंकमंडलुम् । अप्सुप्रास्यविनष्टानिगृहीतान्यानिमंत्रवत् । ( मनु. अ. २ श्लो. ६४) इत्युक्तेरत्रत्योवह्निनिक्षेपोविचारणीयः ।
For Private And Personal