________________
Shri Man Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs Gyanmandir
दोधूयमानश्वमरैः शिवलोके महीयते । करवीरोबकश्चैवअर्कउन्मत्तकस्तथा । पालाशोबृहतीचैवतथाचगिरिकर्णिका । तथाकाशस्यपुष्पाणि मंदार श्चापराजिता । शमीपुष्पाणिचान्यानिकुंजकः शिखिनातथा । अपामार्गस्तथापद्मजातीपुष्पंसकोपनम् । चंपकोशीरतगरंतथावैनागकेसरम् । पुंनागः किंकिरातं चद्रोणपुष्पं तथा शुभम् । शिशपोदुंबर चैवजपामली तथैवच । पुष्पाणियज्ञवृक्षस्यतथाबिल्वदलंशुभम् । कुसुंभस्यचपत्राणितथा वैकुंकुमस्यच । नीलंचकुमुदंचैवतथारक्तोत्पलानिच । सुरभीणिचसर्वाणिस्थलजान्यंबुजानिच । गृह्णामिशिरसादे वियोमे भक्त्यानिवेदयेत् । केसरो | बकुलः । किंकिरातःकुरंटकः । सर्वाणीतिनिषिद्धेतरपरम् । वसंतेतुऋतौप्राप्तेसर्वैः पुष्पैर्मनोरमैः । पूजितेतुमहादेवे अश्वमेधफलंलभेदितिवचना | दत्रनिषिद्धैरपिपूजा | सर्वशब्दसंकोचेमानाभावात् निषेधस्यकालांतरे सावकाशत्वाच्च । देवी पुराणे - वैशाखे मासिकर्तव्यापूजापाटलयासदा । सर्वान्कामानवाप्नोतिज्येष्ठेपद्मार्चनैः सदा । आषाढेबिल्वकारैरीप्सितंलभतेफलम् । नवमल्लिकयापूजानभोमासिमहाफला । कदंबैचंपकैरेव | नभस्येसर्वकामदा । पूजापंकजमालत्याइषेप्युदयदायिनी । शतपत्रिकयापूजाकार्तिके सर्वकामदा । मार्गेनीलोत्पलैः पूजापौ पेतुकुब्जकैः सदा । मा | वेतुकुंद कुसुमैरुचकेनचफाल्गुने । शतपत्रैस्तथाचैत्रेयोर्चयेदिंदुशेखरम् । लभतेसर्वयज्ञानांसर्वदानफलं तथा । केदारखंडे - जातीपुष्पमल्लि कायाश्चपुष्पंसमोगरंनीलपुष्पंतथैव । तथापुष्पंकुटजंकर्णिकारं कौसुंभाख्यंवारिजंरक्तवर्णम् । एतान्येवचपुष्पाणिमध्याह्नेलिंगपूजने । रात्रौमो गरकान्येवपवित्राणिविशेषतः ।
अथधूपः । शिवपुराणे - गुग्गुलं घृतसंयुक्तंशिवेयश्च निवेदयेत् । रुद्रलोकमवाप्नोतिगाणपत्यंचगच्छति । भविष्ये – दधित्थं घृतसंयुक्तं दग्धबिल्वमथापिवा । अग्निष्टोमस्य यज्ञस्यफलंप्राप्नोतिमानवः । दधित्थः कपित्थः । बिल्वंबिल्वफलम् । दीपस्तुपूर्वोक्तएव । आदि त्यपुराणे - प्रदक्षिणात्रयं कुर्वशिवस्यायतनेनरः । अश्वमेधसहस्रस्य इष्टस्यलभते फलम् । बह्वृचपरिशिष्टे - एकांविनायकेदद्याद्देसूर्येत्री
For Private And Personal