________________
Shri Mahayain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsager@yanmandir
आचाररत्नं
॥ ८५ ॥
शिवपूजायांविशेषो भविष्ये - आपः क्षीरंकुशाग्राणिदध्यक्षतसितामधु । सिताश्वसर्षपाश्चैव अर्धोष्टांगः प्रकीर्तितः । तत्रैवचंदनेप्यगरौज्ञेयंपुण्यमष्टगुणंनृप । कृष्णागरौविशेषेणद्विगुणं फलमादिशेत् । तस्माच्छतगुणंपुण्यंकुंकुमस्यविधीयते । चंदनागरुकर्पूरैः सूक्ष्म | पिष्ठैः सकुंकुमैः । शिवस्याचसमालभ्य वसेत्कल्पायुतंदिवि । अर्चेतिलिंगोपलक्षणम् | शिवार्चनचंद्रिकायां भविष्ये केदारखंडेकरवीराद्दशगुणमर्कपुष्पंविशिष्यते । अर्कपुष्पाद्दशगुणंधत्तरं हि विशिष्यते । चंपकंनागपुष्पंचकारंचविशिष्यते । नीलोत्पलंचकारात्सहस्रेणवि शिष्यते । बकपत्रसहस्रेभ्यए कंधत्तूरकंवरम् । धतूरकसहस्रेभ्योबृहतीपुष्पमुत्तमम् । बृहतीपुष्पसाहस्रा द्रोणपुष्पविशिष्यते । द्रोणपुष्पसहस्रे |भ्योह्यपामार्गैविशिष्यते । अपामार्गसहस्त्रेभ्यः कुशपुष्पंविशिष्यते । कुशपुष्पसहस्रेभ्यः शमीपुष्पंविशिष्यते । शमीपुष्पसहस्रेभ्यः श्रीमन्नीलोत्प | लंवरम् । शमीपुष्पबृहत्योश्चकुसुमंतुल्यमुच्यते । अपामार्गः अपामार्गपुष्पं । करवीरसमाज्ञेयाजातीबकुलपाटलाः । श्वेतमंदारकुसुमंसितपद्मंचत त्समम् । नागचंपकपुंनागाधत्तूर कुसमाः स्मृताः । तत्समं करवीरसमम् । नागो नागकेसरः । तथा — केतकीचातिमुक्तंचकुंदोयूथीमदंतिका । शिरीषसर्जबंधूक कुसुमानिविवर्जयेत् । कुंदंवार्षिकशिवपूजायांमाधेविहितम् । अन्यथानिषिद्धम् । तथा — केदकानि कदंबानिरात्रौदेयानिशंकरे । | दिवाशेषाणिपुष्पाणिदिवारात्रौचमल्लिका । प्रत्येकमुक्तपुष्पेषुदशसौवर्णिकंफलम् । मंत्रान्वितेषुतेष्वेवद्विगुणंफलंमिष्यते । बिल्वपत्रैरखंडैस्तुशंकरंपू | जयेत्कचित् । सर्वपापविनिर्मुक्तः शिवलोके महीयते । तुलसीबिल्वनिर्गुडीजंबूराव्रणकंतथा । पंचविल्वमितिप्रोक्तमर्चयेदिंदुशेखरम् । बृहतीकुं | कुमैर्भक्त्यायोलिंगंसकृदर्चयेत् । गवामयुतदानस्यफलंप्राप्यशिवंत्रजेत् । तथा — अशोक श्वेतमंदारकर्णिकारबकानिच । करवीरार्कमंदारशमी तगर केशरम् । पुष्पैरेतैर्यथालाभंयोनरः पूजयेच्छिवम् । सयत्फलमवाप्नोतितदेकाग्रमनाः शृणु । सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः । ४ ॥ ८५ ॥
१ कदकानि केतकानि ।
For Private And Personal
देवपूजा.