________________
Shri Mal
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasha opori Gyanmandir
easeeeeeeeeeeeee
पुराणे-दुकूलपट्टकौशेयरांककार्पासकादिभिः । वासोभिःपूजयेद्देवंसुशुभैरात्मनःप्रियः । विष्णुधर्मोत्तरे-कवामृगरोम्याश्चकैदस्यश्च तथाशुभाः। निषिद्धानिवाराहे-नीलिरंजितवस्त्रंयोमोमांनिवेदयेत् । नवमक्षालितंचैवसचिरंरौरवेवसेत् । नीलीदोषःकासएवोक्तः।
तथा-यज्ञोपवीतदानेनसुरेभ्योब्राह्मणायवा । भवेद्विप्रश्चतुर्वेदीशुद्धधी त्रसंशयः । नंदिपुराणे-अलंकारंचयोदद्याद्विप्रायचसुरायच । | सोमलोकेरमित्वासविष्णुलोकेमहीयते । वस्त्रालंकारादिनप्रत्यहमपूर्वम् । वस्त्रमभ्युक्षणाच्छुध्येदपरंतुदिनेदिनेइतिहरनाथीयेतत्वसागर
संहितोक्तेः । अपरंतदेव । ननिर्माल्यंभवेद्वस्त्रेस्वर्णरत्नविभूषणमितितत्रैवविद्याकरीयनिबंधाच । उपवीतमपिप्रत्यहनापूर्ववस्त्रसमत्वा दितिहरनाथः॥ ॥ गंधपुष्पधूपदीपादेवताभेदेनवक्ष्यते । चंद्रिकायांपाने-गंधेभ्यश्चंदनपुण्यंचंदनादगर्वरः । कृष्णागरुस्ततः श्रेष्ठःकुंकुमंतुततोवरम् । मदनरत्नेगारुडे–कस्तूरिकायाभागौद्वौचत्वारश्चंदनस्यतु । कुंकुमस्यत्रयश्चैवशशिनःस्यात्ततःसमम् । कपूरचंदनंदर्पःकुंकुमंचसमांशके । सर्वगंधमितिप्रोक्तंसमस्तसुरवल्लभम् । काशीखंडे-कस्तूरिकायाद्वौभागौद्वौभागोकुंकुमस्यतु । चंदनस्यत्रयोभागाःशशिनस्त्वेकएवहि । यक्षकर्दमइत्येषसर्वदेवमनोहरः । मदनरत्ने-कर्पूरमगरुश्चैवकस्तूरीचंदनंतथा । कंकोलंचभवेदेभिःपंचभिर्यक्ष कर्दमः । विष्णुधर्मोत्तरे-दारिद्यपद्मकंकुर्यादस्वास्थ्यरक्तचंदनम् । उशीरविप्रविभ्रंशमन्येकुर्युरुपद्रवम् । केवलनिषेधोयंमिलितानांवि धानादितिपंचायतनसारः। गारुडेस्कांदेच-योददातिहरेनित्यंतुलसीकाष्ठचंदनं । पितॄणांचविशेषेणसदाभीष्टहरेर्यथा । तुलसीदल | लग्नेनचंदनेनजनार्दनम् । विलेपयतियोनित्यंलभतेचिंतितफलम् ॥
अथपुष्पाणि । पुष्पदानंकराभ्यामितिकेचित् । तन्न । तत्रदक्षिणकरनियमात् । पुष्पांजलिविधावंजलिविधेश्च । यत्तु–यजन्क १ कदसी तृणविशेषः । २ दर्पः जवादिः ।
e e
For Private And Personal