________________
Shri M
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashseau Fyanmandir
आचाररत्नं
मखानं.
॥५७॥
दुदक्यादीनि । शाखाग्रहणमेकावयव्युपलक्षणम् । तेनैकपाषाणादेरपिग्रहणमितिशूलपाणिः । शाखाखपिकाष्ठादिषुचंडालेनसहावस्थितः सायान्नसचैलमितिसएव । एतदपवादमाहशूलपाणीपराशरः- रथ्याकर्दमतोयानिनावःपंथास्तुणानिच । स्पर्शनानप्रदुष्यंतिपक्केष्टकचि तानिच । तृणानीतिबहुवचनादेकतृणस्पर्शेवानमितिशूलपाणिः । माधवीयेशातातपः-येनकेनचिदभ्यक्तश्चंडालंसंस्पृशेयदि । अहोरात्रोषितःस्नात्वापंचगव्येनशुद्ध्यति । उच्छिष्टःसंस्पृशेविप्रोमद्यशूद्रशुनोऽशुचीन् । अहोरात्रोषितःस्नात्वापंचगव्येनशुद्ध्यति । हेमाद्रौ कौर्मे-उच्छिष्टोऽद्भिरनाचांतश्चंडालान्स्पृशतिद्विजः । प्रमादाद्वैजपेत्स्नात्वागायत्र्यष्टसहस्रकम् । मनुः यस्तुच्छायांश्वपाकस्यब्राह्मणोवा |धिगच्छति । तत्रस्नानंतुतस्यैवघृतंप्राश्यविशुध्यति । शूलपाणौवृद्धशातातपः-अशुचिंसंस्पृशेद्यस्तुएकएवसदुष्यति । संस्पृष्ट्वान्योनदुष्ये तसर्वद्रव्येष्वयंविधिः । चंद्रिकायां श्मश्रुकर्मण्यपिस्नानमुक्तम् ॥ ॥ स्पृष्टास्पृष्टौहेमाद्रौशातातपः-ग्रामेतुयत्रसंस्पृष्टिर्यात्रायांकल हेषुच । ग्रामसंदूषणेचैवस्पृष्टिदोषोनविद्यते । संग्रामेराजमार्गादौयज्ञेषुप्रकृतेषुच । उत्सवेषुचसर्वेषुस्पृष्टास्पृष्टिर्नदुष्यति । बृहस्पतिः-तीर्थे विवाहेयात्रायांसंग्रामेदेशविप्लवे । नगरपामदाहेचस्पृष्टास्पृष्टिर्नदुष्यति । दानेविवाहेयज्ञेचमहोत्पातेरुजागमे । आपद्यपिचकष्टायांसद्यःशौच विधीयते इतियाज्ञवल्क्योक्तेः । एतद्यत्राहमनेनस्पृष्टइतिनज्ञातंतद्विषयमितिहेमाद्रिः । मदनपारिजातेप्येवम् । उच्छिष्टाशु चिस्पर्शपरमितिचंद्रिकायां । शातातपा-काकविष्ठोपघातेसचैलंत्रानंव्याहृतिहोमंचकुर्यादिति । बालस्यास्पृश्यस्पर्श आपस्तंबःअन्नप्राशनात्प्रयताभवत्यासंवत्सरादित्येकेयावतावादिशोनप्रज्ञायंतइति । स्मृतिप्रदीपिकायाम्-शिशोरभ्युक्षणंप्रोक्तंबालस्याचमनंस्मृ तम् । रजस्खलादिसंस्पर्शस्त्रानमेवकुमारके । तल्लक्षणंतु-प्राकूचूडाकरणाद्वाल यागन्नप्राशनाच्छिशुः । कुमारकस्तुविज्ञेयोयावन्मौजीनि बंधनम् । आशार्के-सर्वत्रास्पृश्यसंस्पर्शवारुणंस्नानमुच्यते ॥ ॥ रात्रिलानेविशेषमाह चंद्रिकायांयमः-विप्रःस्पृष्टो
ReeeeeeeeEEEEERelaeeeeeeeee
॥५७॥
For Private And Personal