________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandi
www.kobatirth.org
भी व्यवहारपत्रस्य
अष्टम विभागः।
॥४४॥
स्तद्यथा-एकः साधुः छिन्नानां सन्देशं श्रुत्वा तत्रैव समक्षमाचार्यस्य ब्रूते-क्षमाश्रमणा अनुजानीत युष्माकं योग्येषु परिपूर्णेषु पतद्भहेषु लब्धेषु यद्यन्यान्यपि लभेरन् ततस्तान्यपि मम योग्यानि गृह्णन्तु एवं अवाणः शुद्धः । अथैवमाचार्य नानुज्ञापयति किन्त्वेवमेतान् बजतो ब्रूते तर्हि तस्बेिवं भणति प्रायश्चित्तं लघुको मामः ते चेत् वजन्तः प्रतिशृण्वन्ति ग्रहीष्याम इति तदा तेषामपि प्रायश्चित्तं प्रत्येकं लघुको मासः। द्वितीयो व्रजतस्तान् सांभोगिकान् दृष्ट्वा ब्रवीति क यूयं संप्रस्थितास्तैरवाचि पात्राणामानयनायाचार्येण प्रेषितास्ततस्तान् स ब्रूते-यावन्ति युष्माकं सन्दिष्टानि तावत्सु परिपूर्णेषु यद्यन्यानि यूयं लभध्वं ततोऽस्माकं कारणेन तान्यपि प्रतिगृहीत एवं भणति तस्मिन् प्रायश्चित्तं लघुको मासः । ते यदि प्रतिशृण्वन्ति तदा तेषामपि प्रत्येकं प्रायश्चित्तं लघुको मासः । तृतीयो लजालुतया न शक्नोति स्वयमाचार्यान् विज्ञपयितुं ततोऽन्येन विज्ञपयति । अथवा कोऽपि शठत्वेन अन्येन भाणयति तथा ये ते प्रेष्यन्ते ते ब्रुवते । यूयमाचार्यान् भणत युष्माकं परिपूर्णेषु लब्धेषु यद्यन्यान्यपि लभध्वं तदा मम कारणेन प्रतिगृहीत एवं भणति तस्मिन् प्रायश्चित्तं लघुको मामः तेऽपि यदीयः शठत्वेन भाणयन्ति तस्य यदीच्छन्ति तर्हि तेषां प्रायश्चित्तं मास लघु । तस्मात्तैर्नेष्टव्यं यथा न भणाम इति लजालोर्वचनेन पुनराचार्य भणति । तत्र यदा तत् समक्षमाचार्यों भणित श्राचार्येण च समनुज्ञातं तदा यल्लम्यन्तेऽतिरिक्तं लक्षणयुक्तमयुक्तं वा तत्तस्यैव दातव्यं, द्वितीय प्रकारमाह-गुरुवयणेत्यादि कोऽपि पथिगच्छतो दृष्ट्वा ब्रूते यथा ममापि योग्यानि भाजनानि गृहीत । तत्र यदि प्रत्यासमस्तदा तद्वचनं प्रतिग्राह्य । किमुक्तं भवति-आसन्नप्रदेशा प्रतिनिवृत्य गुरुः प्रच्छनीयो यथाऽमुकः साधुरेवं ब्रवीति ममाप्यर्थायभाजनानि प्रतिगृह्णीथ । अथवा तमेव प्रेषयन्ति त्वमेवाचार्य विज्ञपय एवं कुर्वत्सु तेषु प्रायश्चित्तं मासलघु । अथ दूरे गतांस्तान
॥४४॥
For Private and Personal Use Only