________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कामं पम्हुठं णो चत्तं पुण भावतो इमम्हहिं । इति बेंति समणुण्णे इच्छा कज्जेसु सेसेसु ॥ १९२ ॥
येषां स उपधि विस्मरणत: पतितस्तेषामन्तिकं स नीयते नीत्वा वेदं मण्यते । यथार्य युष्माद्विस्मरणतः पतितोऽस्माभिश्चानीतस्ततो गृह्यतामिति एवमुक्ते ते प्राहुः कामं नोऽस्माकं विस्मरणतः पतितमिदमुपकरणं परंभावत इदमस्माभिस्त्यक्तस्त्रिविधं त्रिविधेन व्युत्सृजति तमिति भावः । एवं युवति उपधिस्ते यदि संभोगिकास्तेन च विना संस्तरति तर्हि स येषां सत्कस्ते परिष्ठापयन्ति । एतेन इच्छाकजेसु इति व्याख्यातम् । सम्प्रति सेसेसुत्ति व्याख्यायते शेषा असांभोगिकास्तेष्वपि कार्येष्विच्छा । इयमत्र भावनाअन्यसांभोगिकैरानीते तैश्च प्रतिषेधे यदि यैरानीतस्ते तेन विना न संस्तरति । अन्यश्वोपधिर्दुलेभो न लभ्यते वा तदा तैः समनुज्ञातं परिभुजते । एतावता अप्पबहुसंथरंतम्मिति व्याख्यातं तदेवं संविग्नानां विधिरीदानीमसीवग्नानामुपधिविधिरुच्यतेपक्खिगापक्खिगा चेव हवंति इयरे दुहा । संविग्गपक्खगेणेति इयरेसिं न गेण्हती ॥ १९३ ॥ इतरे असंविना द्विविधास्तद्यथा संविग्नपाक्षिकाश्चासंविग्न पाक्षिका इत्यर्थः। तत्र यः संविग्नपाक्षिकस्य सम्बन्धी उपधिस्तं स्वयं वानयति अन्यस्य वा हस्ते प्रेषयति सन्देशयति वा यस्त्वितरेपामसंविग्नानामुपधिस्तं पतितं दृष्ट्वा न गृहन्ति । अत्रैवापवादमाहइयरे वि होज गहणं प्रासंकाए अणिज्जमाणंमि। किह पुण होज्जा संका इमेहिं उ कारणेहिं तु ॥१९॥
इतरमिनप्यसंविग्नपाक्षिक सम्बन्धिन्युपधावसंविग्नपाक्षिकसम्बन्धित्वेनाज्ञायमाने आशङ्कयाग्रहणं भवेत् । मरिराह
For Private and Personal Use Only