________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्वा अग्रे क्रियते । ततः समयस्थानलझने कृतिकर्मविश्रामणां तस्य कुरुतः कृत्वा द्रवं पानीयं समर्पयतः तदनन्तरं प्रथमालिका कारयतः । तयोर्द्वयोः साध्वोरभाव एकः समस्त प्रागुक्तं करोति ।
जइ गच्छेजाहिगरणो पुरतो पंथे य सोफिडिजाहि। तत्थ उ ठवेज एग रिकं पडिपंथगप्पाहे ॥१०५॥ ___अथैकोऽपि सहायो न विद्यते तदा स्थविर एकाक्यपि पुरतः प्रवर्त्यते । तत्र यदि सार्थादिवशतस्त्वरितं गच्छन् यदि वा पथि परिरयादिना स स्फिटितो भवेत्तत्र एकं साधुं रिक्तमुपकरणरहितं स्थापयेत् । अथ तत्र शरीरापहारिस्तेन भयं दुष्ट व्याघ्रादि स्वापदभयं वा ततः स मोक्तुं न शक्यते तर्हि अग्रेतनस्थानात् प्रतिनिवर्तमानं पथि कमप्पाहे इति सन्देशापयेत् । तथा अग्रे साधुसमुदायो व्रजन्नास्ते तस्माचरित मागम्यतामिति । सम्प्रति यथा स स्फिटितो भवति तथा प्रदर्शयति ।। सारिक्खकडणीए अहवा वातेण हुजपुठो उ। एवं फिडितो हुजा अहवावी परिरएणं तु ॥ १०६॥ कालगए वसहाएफिडितो अहवावि संभमो हुज्जा। पढमवियतोवएणवगामपविठ्ठो व जो हुज्जा ॥१०७॥ ___ पथि गच्छतो मार्गद्वयं तत्र येन पथा गच्छो गतस्तस्मादन्यस्मिन् पथि केचित्साधु सदृशाः पुरतो गच्छन्तो दृष्टास्ततः साधव एते गच्छन्तीति सादृशन्तीति सादृश्य कर्षिन्याविप्रलब्धः सन् तेन पथा गच्छेदथवा अपान्तराले स वातेन स्पृष्टः स्यात् ततो गन्तुं न शक्नोति । एवममुना प्रकारेण स स्फिटितोभवेत् । अथवा तथाविध महागर्तया पर्वतस्य नद्या वा परिरएण स स्थविरो व्रजन् गच्छन् स्फिटितः स्यात् यदि वा यस्तस्य सहायो दत्तः स कालगत इति स्फिटित एकाकी संजातः।
For Private and Personal Use Only