________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HI
॥ सभाष्ये व्यवहारसूत्रे अष्टमोद्देशकः ॥
व्याख्यातः सप्तमोद्देशकोऽधुनाष्टम प्रारभ्यते । तत्र चेदमादिसूत्रं गाहाउपजोसविए कहे गाहाए ताहे पएसाए ताहे उवासान्तराए जमिणं सेजा संथारगं लभेजा तमिणं तमिणं ममेवसिया थेरायसे अणुजाणेजा तस्सेवसिवा, थेरायसेनो अणुजाणेज्जा, एवंसेकप्पइ आहाराहणियाए सेजासंथारंगपडिग्गाहेत्तए ।सूत्र ॥१-अस्य सम्बन्धप्रतिपादनार्थमाहतह चेव उग्गहम्मी अणुयत्तं तमि रायमादीणं । साहम्मि उग्गहम्मी सुत्तमिणं अठमे पढमं ॥१॥
तथैव पूर्वोक्तेनैव प्रकारेण राजादीनामवग्रहे द वर्तमाने अवग्रहप्रस्तावादष्टमे उद्देशके प्रथममिदं सूत्रं । साधर्मिकावग्रहेपठति एष सूत्र सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-गाहा गेहं तत्र ऋतौ ऋतुबद्धे काले वर्षाकाले वा पर्युषितस्तस्मिन् गाहे सूत्रे स्त्रीत्वं प्राकृतत्वात्तदेवमुत्तरत्रापि तस्मिन् प्रदेशेऽन्तर्बहिरादिलक्षणे तस्मिन्नवकाशान्तरे द्वयोर्मध्यभागलक्षणे | यत् यत् शय्यासंस्तारकं शय्यासंस्तारकभूमि लाभस्वत् ममैव स्यादिति ब्रूते । तत्र यदि स्थविरास्तस्या शठभावमवगम्यानुजानन्ति, तदातस्यैवस्यादथ से तस्य शठमावं मेवबुध्य स्थविरा नानुजानते । एवं तर्हि से तस्य कल्पते यथा रात्निकतया यथा रत्नाधिकतया शय्यासंस्तारकं शय्यासंस्तारकभूमि परिग्रहीतुमिति सूत्रसंक्षेपार्थः । सम्प्रति भाष्यकृद्विषमपदव्याख्यां करोति
For Private and Personal Use Only