________________
Shri Mahavir Jain Aradhana Kendra
भी व्यव
**+1+
हारसूत्रस्य
पीठिका5नंवरः ।
॥ १२ ॥ *
www.kobatirth.org
यथा भावद्वारमालोययत्ति पदैकदेशे पदसमुदायोपचारादालोचनं श्रुत्वेति द्वारं धर्मकथनद्वारं व्यवच्छिनदारमन्यद्वारं चेति पञ्चद्वाराणि यथैवावभाषितद्वारेऽभिहितानि तथैव ज्ञेयानि षष्टं तु विपरिणामद्वारं साक्षादुक्तं । गतं लब्धद्वारमिदानीं संज्ञातिद्वारमाह
सहायएव एच्चिय दारा नवरं इमं तु नाणत्तं । श्रयरिएणाभिहितो गेरहइ संथारयं अजो ॥ ६१ ॥ सुद्धदसमी ठियाणं तेभी घेच्छामि तदिणं चेव । नायगिहे पडिणत्तो माएउ संधारतो भंते ॥ ६२ ॥
यान्येव श्रुतादीनि षट् द्वाराणि लग्घद्वाराभिहितान्येतान्येव सज्ञातिकद्वारेऽपि द्रष्टव्यानि नवरं भावनायां यनानात्वं तदिदं वच्यमाणं तदेवाह --- आयरिएणेत्यादि आचार्येणाभिहित आर्यसंस्तारकं गृहाण, एवमुक्तः सन् सज्ञातिकानां गृहमांगमत् दृष्टः संस्तारको याचितो लब्धश्व अथवा सज्ञातिकैरयाचितैरेव स उक्तो ग्रहाण संस्तारकं ततस्तेनोक्तं यस्मिन् दिवसे संस्तारके स्वप्तुमारप्स्यते तस्मिन् दिवसे नेष्यामः । आचार्याश्च शुद्धदशम्यास्तत्र स्थितास्तव आगत्य शुद्धदशमी स्थितानां गुरूणामन्तिके ब्रूते आलोचयति-भदन्त मया ज्ञातिगृहे संज्ञातिकगृहे संस्तारकः प्रतिज्ञप्तो निभालितस्तिष्ठति ततो यत्र दिने संस्तार के स्वप्स्यते तदिवसमेव तस्मिन्नेव दिने गृहीष्यामः । एवमालोचितं श्रुत्वाऽन्यो याचते लभते च श्रानीतः पूर्व संघा टकस्या भवति न येनानीतस्तस्य गतं श्रुत्वाद्वारमपरः संघाटकोऽप्रेतनसंघाटकवृत्तान्तमनवज्ञाय यथाभावेन गत्वा याचते लभते तेनाप्यानीतः पूर्वसंघाटकस्या भवति न तस्य, अपरे तु द्वयोरपि संघाटकयोस्तं साधारणमाचचते यथा भावद्वारमपि गतमिदानीं साक्षाद्विपरिणामद्वारमाह
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
(~>**←~~+~ (·) **+-+
**03++**<***
अष्टम
विभागः ।
अ० उ०
॥ १२ ॥