________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी व्यवबारसूत्रस्य वीठिकाsनंतर। ॥११॥
अष्टम विभाग भ० उ०
दीनि चत्वार्यपि द्वाराणि । अत ऊर्ध्वमाह-षष्टे द्वारेऽन्यो चान्यस्येति लक्षणे विशेषोऽस्ति तं वक्ष्यामि । प्रतिज्ञातमेव करोतिअच्छिन्ने अन्नोन्नं सो वा अन्नं तु जइ स देजाहि । कप्पइ जो उ पणइतो तेण व अन्नण व न कप्पो ॥५६॥
येन प्रथमसंघाटकेन संस्तारको दृष्टो याचितश्च न लब्धस्तस्य तद्विषये भावे मच्छिन्नेअव्यवच्छिन्ने अन्येन संघाटकेन तत्र गत्वा याचितेऽन्यो मनुष्योऽन्यसंस्तारकं यदि दद्यात् यदि वा स एव संस्तारकस्वामी अन्य संस्तारकं दद्यात् । तदा स तस्य कल्पते यस्तु प्रणयितो याचित: संस्तारका स तेन स्वामिनाऽन्येन वा मनुष्येण दीयमानो न कन्पते । गतमयभाषितद्वारमधुना लब्धद्वारमाहलद्धद्वारे चेवं जोए जह संभवं तु दाराई। जत्तिय मेत्तो विसेसो तं वुच्छामि समासेणं ॥ ५७॥
लब्धद्वारेऽप्येवमुक्तप्रकारेण श्रुत्वादीनि द्वाराणि यथासंभवं योजयेत् । यावन्मात्रश्च विशेषस्तावन्मात्रं तं विशेष समासेन वक्ष्ये । तत्र प्रथम श्रुत्वेति द्वारमधिकृत्य विशेषमाहउभासियंमि लद्धे भणंति न तरामि एगिह नेउं जे। अत्थउन हामो पुण कल्ले वा घच्छेहामोत्ति ॥५८॥
प्रथमसंघाटकेन भिक्षामटता क्वापि संस्तारको दृष्टो याचितो लब्धश्च । तस्मिन् अवभाषिते लब्धे च साधवो भणन्ति न शक्नुमः । सम्प्रति भिक्षामटन्तः संस्तारकं नेतुं ततस्तिष्ठतु पश्चान्नेष्यामः । एतच गुरुसमीपे समागत्य तेन संघाटकेनालोचितं तच श्रुत्वाऽन्यो याचते लभते च पानीतः सन् पूर्व संघाटकस्या भवति न तस्स-अपरे द्वयोरपि तं साधारणमाचक्षते, विपरिणामद्वारं साक्षादाह
For Private and Personal Use Only